पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/७६

पुटमेतत् सुपुष्टितम्
५८
काव्यमाला ।

पदार्थोभयगुप्तं यथा--

[१]सनिषिद्धोऽप्यगराजः कुचोपमायां पुनश्च गतिवण्योः (?) ।
योग्योऽभूदुपमायां सर्वं धात्रोपयुक्तमिह सृष्टम् ॥ १५ ॥

 अत्र सनिषिद्धो निषेधवाचकनकारयुक्त इत्यर्थगोपनम्, 'नागराजः' इति पदगोपनं च । अत्र क्रियागुप्तवद्भेदा बोध्याः ।

 कर्तृकर्मोभयगुप्तं यथा--

नारीनाशोदयद्धूलीपालीपिहितपूषणि ॥
स्वान्तरे खण्डयामास खड्गेनैकेन खण्डशः ॥ १६ ॥

        अत्र 'ना, अरीन्' इति ।

भावगुप्तं यथा--

मारनाराचनिर्भिन्नमानसा मत्तकाशिनी ।
मन्दरं मृगशावाक्षी मुहुर्निन्दति लुण्ठति ॥ १७ ॥

        अत्र 'चन्द्रोत्पत्तिहेतुत्वात्' इति भावः ।

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतो गुप्तबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवनाम्नश्च कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे गुप्तबिन्दुः षष्ठः समाप्तिमगमत् ।

पूर्वार्धः समाप्तः ।



नर्तनबिन्दुः ।

अत्र नर्तनबिन्दौ तु वक्ष्ये रूपकलक्षणम् ।
प्राचीनोक्तीः समालोच्य बालानां बुद्धये द्रुतम् ॥
अभिव्यज्य विभावानुभावादीन्नाटके च ये (?) ।
उत्पादयन्सहृदये रसज्ञानं निरन्तरम् ॥
अनुकर्तृस्थितो योऽर्थोऽभिनयः सोऽभिधीयते ॥



  1. कुचोपमाया निषिद्धोऽपि सोऽगराजः पर्वतः पुनश्च गतिवर्णनाया नकारयुक्तोऽगराजो नागराजो गजो योग्योऽभूत्.