पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
मयमते

सिंहश्रोत्रशिखालिङ्गं पट्टिकान्तस्य पट्टिका ।
विधेया स्वस्तिकाकृत्या नासिकोर्वे तु नासिका ॥ २६ ॥
कुक्षिमानं यथामानं यथाशोभनमेव वा ।
प्रतिवाजनकस्यो नेष्यते नासिकोच्छयम् ॥ २७ ॥
आलिङ्गं पादपादोचं पादात् पादविनिर्गतम् ।
तस्मादन्तरितं चोर्चे निष्क्रान्तावेशनक्रियम् ॥ २८ ॥
त्रिपट्टाग्रं हि पादोच्च पादे पादान्तरे स्थितम् ।
दण्डं त्रिपादमध वा प्रत्युत्सेधं तदूर्ध्वतः ॥ २९ ॥
स्वोच्चत्रिपादनिष्क्रान्ता प्रतिरर्धन वा तथा ।
दण्डः सपादः सा? वा प्रतिवर्क विनिर्गमः ॥३०॥
तावदूर्बोद्गतिस्तस्याः प्रागुक्तविधिना स्थिता ।
सव्याला वा ससिंहेभा ऋज्वी वा स्यात् प्रतेः कृतिः ॥
तदुञ्चत्रिचतुर्भागं बाजनं निर्गमोद्गमम् ।
समकरं चित्रखण्डं नागवक्त्रमिति त्रिधा ॥ ३२ ॥
नागवक्त्रं नागफणं स्वस्त्याकृतिशिरःक्रियम् ।
तैतिलानां द्विजादीनां भवेत् समकरा प्रतिः ॥ ३३॥
चतुरथं तु खण्डाग्रं मकरं चित्रखण्डकम् ।
नृपाणां वणिजां शूद्रजन्मनामर्धचन्द्रकम् ॥ ३४ ॥
हस्तिरूपं भवेन्मुण्डं प्र(चा?ल्य)ग्रं चित्रसन्निभम् ।
ककरं कर्कटं बन्धमन्यदप्येवमूह्यताम् ॥ ३५ ॥
वाजनोचे वलीकोर्षे तुला. सम्यक निवेशयेत् ।
इण्डोच्चं वा त्रिपादोच्चमर्धतारसमान्वतम् ।। ३६ ॥

103