पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
मयमते।।।

सूकरघ्राणमित्युक्तं सूकरघ्राणसन्निभम् ।
यथाबलं यथायुक्ति नानाबलशिखान्वितम् ॥ ४० ॥
नानाकीलैस्तु सङ्कीर्ण स्यात तु सङ्कीर्णकीलकम् ।।
वज्राकृतिशिखं नाम्ना वज्रसन्निभमेव तत् ॥ ४१॥
एतस्मिन् पतिसन्धाने सन्धिरका कृतिर्भवेत् ।
उपर्युपरि चैवं स्याद् विपरीते विपत्करम् ॥ ४२ ॥
अन्तर्मूलं बहिश्चाग्रं पार्श्वद्रव्यपु योजयेत् ।
अन्तरग्रं बहिर्मूलं स्वामिनच विनाशनम् ॥ ४३ ॥
शिखा दन्तं च शूलं च विद्धं पर्यायमीरितम्।
शल्यं च शङ्कराणिश्च कीलं पर्यायमुच्यते ॥४४॥
 अष्टसप्तकषडंशक इधिक
  भागतारमथ शूलकीलयोः।
 कीलपार्श्वमथ पादमध्यम
  योजयत् सममुद ग्रबुद्धिमान ॥४५॥
 स्तम्भान्तं दन्तान्तकं चद् विनाशं
  दन्तान्तं चेत स्तम्भमध्यं तदेव ।
 स्तम्भान्तं चत् सन्धिमध्यं सरोगं
  सन्धेमध्यं पादमध्यं क्षयं स्यात् ॥ ४६ ॥
दिग्विदिगद्वारदेवांशं सर्व त्यक्त्वा प्रयोजयेत्।
अर्काविरुणन्दृनां स्थानं दिगिति कीर्तितम् ॥४७॥
अग्मिराक्षसवारीशस्थानं विदिगिति स्मृतम् ।
गृहक्ष(त)श्च पाख्या भल्लाटश्च महेन्द्रकः ॥४८॥

111