पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
मयमते।।।

पर्यन्तसूत्रकादन्तर्दण्डिकोत्तरजा ततिः ।
तदन्तर्जानुकव्यासस्तदन्तश्चूलिकास्थितिः ॥ ३७ ॥
लुपातारं तु दण्डं वा सपादं सार्धमेव वा।
विस्तार(स्त्रि?त्रि)चतुष्पञ्चभागैकांशं तु तद्धनम् ॥ ३८॥
जानुव्यासं चोत्तरार्धचूलिकार्धिमेव वा ।
दण्डिकाविपुलं तावत् त्रिपादार्ष तु तद्धनम् ॥ ३९ ॥
वलयं जानुनीप्रं च दण्डिकाविपुलार्धतः ।
मल्लमध्यादिचामीली(?) जानुकालम्बनं च यत् ॥ ४० ॥
पर्यन्तजानुकान्तं च चूलिकाभाग एव सः ।
शयनात् तावदेव स्यात् त्रिपालम्बनसूत्रकम् ॥ ४१ ॥
कुठारिकाललाटं च जघनं च समं मतम् ।
पादविष्कम्भकर्णो वा विष्कम्भहिगुणोऽथ वा ॥ ४२ ॥
कूटव्यासो लुपापिण्डी कर्णस्तद्विगुणायतः ।
तदर्ध नालिकालम्बमूा मल्लाग्रसङ्गतिः ॥ ४३ ॥
छिद्रं तत्तीवमात्रं स्यान्मलानां तु प्रवेशनम् ।
जानुकं च लुपामध्यं मध्यपृष्ठस्थवंशकम् ॥ ४४ ॥
समं स्यात् तीव्रताराभ्यां चूल्यंशो वा लुपान्तरम् ।
लुपातीवाष्टगुणं वा वलयो वंशविस्तरः ॥ ४५ ॥
तदर्ध वेशनं तीव्र फलकैलॊहलोप्टकैः ।।
मृण्मयैस्तु यथास्थैर्यमिच्छया छादयेत् पुनः ॥ ४६ ॥
लुपोर्चे फलकान् न्यस्य वाष्टबन्धमधोव॑तः ।
लुपामध्यादधश्छिद्रं वलयस्य विधीयते ॥४७ ।।