पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
मयमते।।।

परुषवकुलवह्निक्षीरिणीत्येवमाद्याः
 सुदृढविमलसाराः स्थूपिकीलाः प्रसिद्धाः॥१६४ ।।
अथ हम्र्ये परि(नि)ष्ठिते तदा
 यजमानोऽपि गुरुश्च वर्धकिः ।
उदगायनशोभन(नक्षत्रीक्ष)पक्षे
 जलसम्प्रोक्षणकर्म चारभेत् ॥ १६५ ॥
नवसप्तत्रिकपञ्चरात्रिके
 विधिना चाङ्कुरार्पणं कुरु ।
भवनस्योत्तरपूर्वदेशतः
 स्वधिवासार्हमण्डपं चरेत् ॥ १६६ ॥
नवसप्तेषुकरैर्युगाश्रक
 वसुपादं नववस्त्रशोभितम् ।
सवितानं सुपटैनिवेष्टितं
 सुमनोज्ञं सितपुष्पशोभितम् ॥ १६७ ॥
तस्य मध्ये तु शालीभिः स्थण्डिलं दण्डमानतः ॥१६८ ॥
कृत्वाष्टाष्टपदं न्यस्य ब्रह्मादीन् वस्तुनायकान् ।
श्वेततण्डुलधाराभिविन्यस्याराध्य पुष्पकैः ॥ १६९ ।।
गन्धैधूंपैश्च दीपैश्च बलिं दत्त्वा विधानतः ।
तदूर्व पञ्चपञ्चैव कलशान् वस्त्रशोभितान् ॥१७॥
मणिहेमसमायुक्तान् ससूत्रान् सापिधानकान् ।
निष्कलङ्कानसुषिरान् हाटकोदकपूरितान् ॥ १७१ ॥