पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
मयमते।।।

 जन्मान्तं वा जगत्यन्तं कैरवान्तं गलान्तकम् ॥ २३ ॥
 पट्टिकान्तं तलं पञ्चभेदं सर्वेषु धामसु ।
 छिद्रं विद्यादधश्चोर्चे बाह्ये नालं प्रयोजयेत् ॥ २४ ॥
 द्वादशाङ्गुलमारभ्य त्रिज्यङ्गुलविवर्धनात्।
 चतुर्विशागुलं यावदायाम पञ्चधा भवेत् ॥ २५ ॥
 अष्टाङ्गुलं समारभ्य विद्यगुलविवर्धनात् ।
 तारं षोडशमात्रान्तं पञ्चधा परिकीर्तितम् ।। २६ ॥
 समं त्रिपादमध वा धनं छिद्रं तु मध्यमे ।
 त्रिचतुष्पञ्चषण्मात्रं तारं तत्समनिम्नकम् ॥ २७॥
 मूलात् पञ्चत्रिभागं स्यादग्रं धारासमन्वितम् ।
 घटितं सिंहवक्त्रेण किञ्चिन्मूलान्नताग्रकम् ॥ २८ ॥
 एवं नालं प्रकर्तव्यं वामे प्रासादमध्यमे ।
 अन्तःपीठस्य नालस्य समं वा बहिरिप्यते ॥ २९ ॥
 विस्तारायाममुत्सेधं सर्वाण्यङ्गानि च कमात् ।
 सक्षेपतः समादिष्टान्यलङ्कारमथोच्यते ॥ ३० ॥
वृत्तग्रीवामस्तकं वैजयन्तं श्रीभोगं स्यात् कर्णकूटोपयुक्तम् ।
मध्येभद्रं श्रीविशालं तदेव वस्वकं चेच्छीर्ष(क) स्वस्तिबन्धम्॥
वेदाश्राभं तच्छिरः श्रीकरं स्याद् यथ वृत्तं हस्तिपृष्ठं हि नाना।
ऋत्वश्राभं शीर्षकं स्कन्दकान्तं तत्तन्नाम्ना तत्तदायामयुक्ते॥
 मध्ये भद्रयुतं कर्णकूटयुक्तं तु मस्तके ।
 कोष्ठकं भद्रनास्यङ्गं वृत्तं वा गलमस्तकम् ॥ ३३ ॥
 नाम्नैतत् केसरं प्रोक्तं युगाध वा गलं शिरः।
 पञ्चसप्तर्तुभागे तु त्रियशैर्मध्यभद्रकम् ॥ ३४ ॥