पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
एकोनविंशोऽध्यायः।।।।

नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ।
चतुरश्रायताश्रं यन्नागरं परिकीर्तितम् ॥ ३५ ॥
अष्टाशं च षडश्रं च तत्तदायाममेव च ।
सौधं द्राविडमित्युक्तं वेसरं तु प्रकथ्यते ॥ ३६॥
वृत्तं वृत्तायतं घ्यश्रं वृत्तं चान्यं प्रकथ्यते ।
स्थूप्यन्तं चतुरश्रं यन्नागरं परिकीर्तितम् ॥ ३७॥
ग्रीवात् प्रभृति ववध विमानं द्रामिळं भवेत् ।
ग्रीवात् प्रभृति वृत्तं यद् वेसरं तदुदाहृतम् ॥ ३८ ॥
तले तले विमानानां दिक्षु देवान् न्यसेत् क्रमात् ।
पूर्वायां द्वारपालौ तु नन्दिकाळी च विन्यसेत् ॥ ३९ ॥
दक्षिणे दक्षिणामूर्ति पश्चिमेऽच्युतमेव हि ।
अथवा लिङ्गसम्भूतमुत्तरे तु पितामहम् ॥ ४० ॥
मण्डपे मध्यदेशे तु दक्षिणे तु विनायकम् ।
तत्पूर्व पश्चिमे वापि नृत्तरूपं विशेषतः ॥ ४१ ॥
कात्यायनीमुदग्भागे क्षेत्रपालं तथैव च ।
स्थानकासनसंयुक्ता दिशामूर्तीयसेद् बुधः ॥ ४२ ॥
विशेषेण कथोपेतं रूपाण्यपि विधानतः ।
एवं मूलतले प्रोक्तमुपर्युपरि वक्ष्यते ॥ ४३ ॥
पुरन्दरं न्यसेत् पूर्वे सुब्रह्मण्यमथापि वा ।
दक्षिणे वीरभद्रः स्यान्नारसिंहश्च पश्चिमे ॥ १४ ॥
उत्तरे तु विधाता स्याद् धनदो वा विधीयते ।
एवं हितलविन्यासं त्रितले तु मरुद्गणान् ॥ ४५ ॥