पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
मयमते।।।

ध्यश्रवृत्तमधिष्ठानं तद्वत् कन्धरमस्तकम्।
तद्विस्तारार्धमानेन वर्तुलं वर्तनीयकम् ॥ १६ ॥
अश्रात् पार्श्वे च पृष्ठे च कुर्यादर्कद्वयांशकम्
कूटकोष्ठकनीडानां विस्तारं भागमिष्यते ॥ १७ ॥
कोष्ठक द्विगुणायामं हारा भागेन योजिता
समं त्रिपादमध वा मुखमण्डपमिष्यते ॥ १८ ॥
मण्डपोर्ध्व यथा हये तथालङ्कारमीरितम् ।
कूटकोष्ठादिसंयुक्तं मण्डपं खण्डहर्म्यके ॥ १९ ॥
त्रिवर्गसहितं वापि तोरणाचैर्विचित्रितम् ।
मण्डपं समसूत्रं चेदन्तरालं तु निम्नकम् ॥ २० ॥
कूटकोष्ठादि सर्वाङ्गं मानसूत्राद् बहिर्गतम् ।
स्वव्यासार्ध तदर्धार्ध दण्डं सार्धद्विदण्डकम् ॥ २१ ॥
द्विदण्डार्ध त्रिदण्डं वा मानसूत्राद् बहिर्गतम् ।
एवं युञ्जीत हर्म्य तु संपदामास्पदं सदा ॥ २२ ॥
ऋजुसूत्रं प्रमाणान्तं तद्भङ्गं विपदां पदम् ।
षड्भागं स्यात् तदूर्वे तु पृष्ठतस्तस्य पार्श्वयोः ॥ २३ ॥
कृत्वार्कद्विगुणांशं तु कूटकाष्ठादि पूर्ववत् ।
ऊर्ध्वभौमं चतुर्भागं यथायुक्तिवशान्नयेत् ॥ २४॥
मस्तके पुरतो नेत्रशालावक्रसमन्वितम् ।
गर्भकूटोपसंपन्नं क्षुद्रनास्यधिसंयुतम् ॥ २५ ॥
कूटकोष्ठादिसंयुक्तं यथालङ्कारमाचरेत् ।
शिखरे दश नास्यः स्युस्तिस्रः पादसमन्विताः ॥ २६ ॥