पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
मयमते।।।

छत्रकेतुपताकाश्रीभैरी कुम्भं च दीपिका ।
नन्द्यावर्तेन चाष्टौ हि सर्वेषामष्टमङ्गलम् ॥ ७९॥
एवं प्रोक्तं चतुर्भेदं देवादीनां तु तोरणम् ।
पद्मासनोर्चे कुम्भस्य तिर्यक् चारुलताकृतिः ॥ ८० ॥
तदूचे स्तम्भमासक्तवल्लीमण्डलमण्डितम् ।
तदूधै फलको जमिष्टकुम्भलताग्रकम् ।। ८१ ॥
कुम्भकुम्भलतैवं स्यादन्यदप्येवमूह्यताम् ।
तदेवोत्सन्धिकोचे तु वीरकाण्डसमन्वितम् ॥ ८२ ॥
स्तम्भकुम्भलतैवं स्यात् स्तम्भतोरणवच्छिरः ।
हारायां तु प्रकर्तव्या दैवेऽदैवे निकेतने ।। ८३ ॥
षडष्टदशमार्ताण्डमनुवैकारमात्रकैः।।
व्यासं तारार्धनिष्क्रान्तत्रियशं वा त्रिभागिकम् ।।
वृत्ताकारसमं छन्नं तोरणाघिवदायतम् ।
सकन्धरं तदुर्वे तु शुकनास्या विभूषितम् ॥ ८५ ॥
वृत्तस्फुटितमित्युक्तं धुसदा सद्मभूषणम् ।
तले तले तु सोपानं प्रयुञ्जीत विचक्षणः ॥८६॥
त्रिविधं तस्य मूलं. तु चतुरं वृत्तमायतम् ।
चतुर्विधप्रकारं(?) स्यात् त्रिखण्डं शडमण्डलम् ॥ ८७॥
वल्लीमण्डलमत्यर्धगोमूत्रेण समाहितम् ।
मूलादाग्रात् क्रमक्षीणं प्रथितं शङ्खमण्डलम्॥८८॥
स्याद् वल्लीमण्डलं वृक्षारोहिवल्लीसमक्रियम् ।
अश्वपादोपरिस्थित्यारोहणं दक्षिणाघ्रिणा ॥ ८९॥