पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
मयमते।।।

चतुरश्रं तु वस्वश्रं षोडशाशं तु वर्तुलम् ।
मस्तकं स्तूपिकोपेतं कूटं कर्णगतं मतम् ।। ८२ ॥
मध्यनासिसमोपेतमर्धकोटिसमन्वितम् ।
मुखपट्टिकयोपेतं शक्तिध्वजसमायुतम् ॥ ८३ ॥
अनेकस्थूपिकोपेतं कोष्ठकं मध्यमे भवेत् ।
हस्तिपृष्ठनिभं पृष्ठे शालाकारं मुखे मुखे ॥ ८४ ॥
पञ्जरं विहितं कूटकोष्ठयोरन्तरे बुधैः । ।
पार्श्ववकं तदेवेष्टं हस्तितुण्डं समण्डितम् ।। ८५ ॥
एष जातिक्रमः प्रोक्तः कर्णकोष्ठसमन्वितः।
मध्ये कूटं तयोर्मध्ये क्षुद्रकोष्ठादिशोभितम् ॥ ८६ ॥
छन्दमेतत् समुद्दिष्टं कूटं वा कोष्ठकं तु वा ।
अन्तरप्रस्तरोपेतनिम्नं वोन्नतमेव वा ॥ ८७ ॥
विकल्पमिति निर्दिष्टमाभासं तद्विमिश्रितम् ।
क्षुद्राल्पमध्यमोत्कृष्टं हाणामेवमीरितम् ॥ ८८ ॥
त्यादिभेदकैर्युक्तं विमानं संपदां पदम् ।
विपरीते विनाशाय भवेदेवेति निश्चयः ।। ८९॥
षडष्टा) च वृत्ते च द्वयश्रवृत्ते च तत् क्रमात् ।
पञ्चाटनवपतयंशे व्यासैकांशेन बाह्यतः ॥ ९ ॥
वर्तयेत् तु तदाकृत्या कोटिच्छेदार्थमीरितम् ।
चतुरश्रस्य नाहेन योजयेत् तु समं यथा ॥ ९१ ॥
तया वर्तनया तेषां मानं संपूर्णमिष्यते ।
मानं धाम्नस्तु संपूर्ण जगत्संपूर्णता भवेत् ॥ ९२ ॥