पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
त्रयोविंशोऽध्यायः।।।।

वृषकमलजगुहहरयः पूर्ववदुदितास्तथार्यकादिपदे ।
रविग्रजवदनयमास्ते. मातृजलेशौ च दुर्गा च ॥ ४१ ॥
धनदश्चण्डः क्रमशः सूर्यपदादिष्ववामगताः।
षोडश परिवाराः स्युश्चोगे पीठे निधातव्याः॥ ४२ ॥
अन्तश्चार्यकभागादिषु वृषभाद्यास्तथा प्राग्वत् ।
ईशपदे च जयन्ते भृशभागेऽमौ च वितथे च !!४३॥
भृङ्गनृपे पितसुगले शोषे वायौ च मुख्यकेऽप्युदितौ।
चण्डश्चन्द्रः सूर्यो गजवदनः श्रीः सरस्वती चेति ॥ ४४ ॥
ता मातरश्च शुक्रो जीवो दुर्गा दितिस्तथाप्युदितिः ।
द्वात्रिंशत् परिवाराः स्थण्डिलकाख्ये तु चण्डिते स्थाप्याः॥
ब्रह्मपदं नवबाह्ये श्रीज्येष्ठोमा सरस्वती चैताः ।
साविन्द्रेन्द्रजयांशे रुद्रजये चापवत्से च ॥४६॥
आर्यादिषु च पदेषु वृषभाद्याः पूर्ववत् कथिताः ।
ईशे पर्जन्यपदे माहेन्द्रे भानुभागे तु ॥४७ ॥
सत्यान्तरिक्षकानलपूषग्रहक्षतार्तिभागे तु।
मन्धर्वे भृषभागे पितृबोधनपुष्पदन्तवरुणेषु ।। ४८ ॥
'असुरे यक्षसमीरणभागे नागे च भल्लाटे ।
सोमपदे ऋभभागेऽप्युदितौ देवाः क्रमात् स्थाप्याः॥
ईशशशिनन्दिकेश्वरसुरपतयो वै महाकालः ।
दिनकरवह्निबृहस्पतिगजवदनयमाश्च भिङ्गिरिटिः॥५०॥
चामुण्डाप्यथ नितिश्चागस्त्यो विश्वकर्मा च ।
जलपतिरथ भृगुनामा दक्षः प्रजापतिर्वायुः ॥ ५१॥