पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
मयमते।।।

वसुमात्रं ततः पृष्ठं ग्रीवान्तं तु षडङ्गलम् ।
नेत्रमध्याल्ललाटोच्चं चतुर्मात्रं प्रकीर्तितम् ॥ ११६॥
नेत्रात् कर्णान्तरं तावत् कर्णायाम शराङ्गलम् ।
कर्णमूलं द्विमानं स्याद् भागं कर्णस्य मध्यमम्॥११७ ॥
अग्रमङ्गलविस्तारं घनमर्धाङ्गलं भवेत् ।
माणं सार्धाङ्गुलायाममङ्गुलं गाढविस्तृतम् ॥ ११८ ॥
अङ्गलं नासिकातुङ्गमास्यं पञ्चाङ्गलायतम् ।
उत्तरोष्ठं त्रिमात्रोच्चमधरोष्ठं हिमात्रकम् ॥ ११९ ॥
जिह्वायामविशालोच्चं त्रिद्वयेकाङ्गुलमीरितम् ।
ग्रीवाव्यासं दशाङ्गल्या मूलं द्वादशमात्रकम् ॥ १:
मूलेऽग्रे च धनं पृष्ठे ग्रीवस्याष्टषडङ्गलम् ।
ककुत् षडङ्गलव्यासमुत्सेधं तु तदर्धकम् ।।१२१ ॥
ग्रीवस्याग्रविशालं तु द्विमानं युक्तितो न्यसेत् ।
ककुदस्तु शरीरोच्चं त्रिःषडङ्गलमीरितम् ॥ १२२॥
द्विःसप्तमात्रकं पृष्ठे व्यासं द्वादशमात्रकम् ।
अपरोरुविशालं तु दशाष्टचतुरङ्गुलम् ॥१२३ ॥
पञ्चाङ्गुलं तदायामं जानुदेशं द्विमात्रकम् ।
जङ्घादैर्घ्य शराङ्गुल्या व्यङ्गुलं स्याद् विशालकम् ॥१२४ ॥
खुरोत्सेधं त्रिमात्रं स्यात् पुच्छमूलं तथैव च ।
सार्धाङ्गलं तु पुच्छाग्रं जङ्घान्तं तस्य लम्बनम् ॥ १२५॥