पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
मयमते।।।

द्वारशोभादिविस्तारं गोपुरान्तं यथाक्रमम् ।
क्षुद्राल्पयोः समुद्दिष्टं मध्यानां प्रविधीयते ॥ ३ ॥
मूलधाम्नस्तु विस्तारे चतुष्पञ्चषडंशके ।
सप्ताष्टांशे च भागोनं गोपुरान्तं यथाक्रमम् ॥ ४ ॥
द्वारशोभादिविस्तारं पञ्चधा परिकीर्तितम् ।
त्रिभागैकांशमध्यं च द्विभागं स्यात् त्रिभागिके ॥ ५ ॥
चतुर्भागे त्रिभागं तु पश्चांशे चतुरंशकम् ।
द्वारशोभादिविस्तारं गोपुरान्तं क्रमेण तु ॥ ६ ॥
उत्तमानामिदं प्रोक्तं हस्तैरप्यथ वक्ष्यते ।।
द्विहस्तादि द्विरष्टान्तमेकारनिविवर्धनात् ।। ७ ॥
एकैकं त्रित्रिधा मानं हारशोभादिपञ्चसु ।।
त्रिहस्तादेकत्रिंशान्तं द्विद्विहस्तविवर्धनात् ॥ ८ ॥
प्रोक्तं त्रिः पञ्चधा मानं द्वारशोभादिपञ्चके ।
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।। ९ ॥
सप्तत्रिंशत्करं यावत् पञ्चपतिप्रमाणकम् ।
शोभादिगोपुराणां च विस्तारं परिकीर्तितम् ॥ १० ॥
द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके ।
गोपुरेण तु पञ्चैते हारशोभादिपञ्चसु ॥ ११ ॥
अथवा हस्तमानेन विस्तारं परिगृह्यताम् ।
त्रिपञ्चसप्तनन्दैकादशारनैर्विवर्धनात् ॥ १२ ॥
पश्चमानं द्विरनिभ्यां पञ्चस्वेकस्य संमतम् ।
पञ्चसप्तत्रिस्न्येकादशत्रयोदशमानतः ॥ १३ ॥