पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६१
चतुर्विंशोऽध्यायः।।।।

प्रथमावरणे हारशोभाव्यासस्तु पञ्चधा ।
त्रिपश्चाद्या त्रयोविंशद् द्वारशालाविशालता ॥ १४ ॥
पश्वपञ्चकराद् यावत् त्रयस्त्रिंशत्करान्तकम् ।
द्वारप्रासादविस्तारं पञ्चधा परिकीर्तितम् ॥ १५ ॥
पश्चत्रिंशत्कराद् यावत् त्रिचत्वारिंशदन्तकम् ।
द्वारहर्म्यस्य विस्तारं पञ्चभेदमथोच्यते ॥ १६ ॥
नवपञ्चकराद् यावत् त्रिपञ्चाशत्करान्तकम् ।
पञ्चधा विपुलं प्रोक्तं गोपुरस्य मुनीश्वरैः ॥१७॥
चक्रवर्तिमहाराजवेश्मन्यप्येवमूह्यताम् ।।
सार्ध त्रिपादं द्विगुणं त्र्यंशैकयंशमायतम् ॥ १८॥
शोभादीनां तु पञ्चानां हाराणामुदितं ततः ।
तेषामेवं क्रमाद् व्यासादुत्सेधं पृथगुच्यते ॥१९॥
सप्तांशे च दशांशं च चतुरंशे षडंशकम् ।
सप्तभागे चतुर्भागं त्रित्रिभागे तु पञ्चभिः ॥ २० ॥
द्विगुणं तु यथासंख्यं द्वारायतनतुङ्गता ।
गोपुरस्य तु विस्तारं त्रिभागादेकभागिकम् ॥ २१ ॥
चतुर्भागैकभागं च पञ्चभागविभागिकम्।
निर्गमं गोपुराणां तु प्राकाराद् भित्तिबाह्यतः॥ २२॥
मूलं सार्ध तु पादोनद्विहस्तं तु द्विहस्तकम् ।
तत्चषडङ्गुलैनन्दमात्रैर्दादशमात्रकैः ॥ २३ ॥
वृड्या पञ्चकरान्तं तु सप्तान्तं तु नवान्तकम्।
द्वारं त्रिःपञ्चधा मानमेकैकं तु पृथक् पृथक् ॥ २४ ॥