पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
चतुर्विंशोऽध्यायः।।।।

चतस्रः शिखरे नास्यः शिरो भद्रसमन्वितम् ।
अन्तःपादोत्तरैर्युक्तमयुग्मस्थूपिकान्वितम् ॥ १.२॥
द्वारशालात्रयं प्रोक्तं सर्वाङ्गं परिमण्डितम् ।
श्रीकान्तस्य च संस्थानं विस्ताराध्यर्धमायतम् ॥ १०३ ॥
नन्दपतिशिवांशैश्च त्रिचतुष्पञ्चभूमयः ।
अन्तःपादोत्तरैर्युक्तमन्धाराद्यैरलङ्कतम् ॥ १.४॥
द्वारस्योऽन्तरे रङ्गं परिभद्रसमन्वितम् ।
मुखेऽमुखे महानासी शालाकारशिरो भवेत् ॥ १०५ ।।
अर्धकोटिसमायुक्तं चतुष्पञ्जरशोभितम् ।
श्रीकेशस्य तु संस्थानं तारत्रिभागमायतम् ॥
पूर्ववद् भूमिभागं च द्वारे निर्गमकुट्टिमम् ।
सान्धारं कूटकोष्ठादिसर्वावयवसंयुतम् ॥ १०७॥
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कतम् ।
अन्तःपादोत्तरैर्युक्तं मध्ये वारणशोभितम् ॥ १०८॥
मुखेऽमुखे महानासी शालाकारशिरःक्रियम् ।
पार्श्वयोर्वेदिनारयः स्युः सर्वावयवशोभितम् ॥ १.९ ॥
स्वस्तिकाकृतिवन्नासी सर्वत्र परिशोभिता ।
नन्द्यावर्तगवाक्षादिजालकायैर्विचित्रितम् ॥ ११० ॥
केशविशालसंस्थानं विस्ताराध्यर्धमायतम् ।
पूर्ववद् भूमिभागं च मध्यवारणशोभितम् ॥ १११॥
कूटकोष्ठाद्यलङ्कारं पूर्ववत् परिकल्पयेत्।
मुख पृष्ठे द्विपार्श्वे तु महानासीचतुष्टयम् ॥ ११२।।