पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७९
पञ्चविंशोऽध्यायः।।।।

सावयेकं बीजमेवोदितमथ तिथिके पोडशांशैकहीनं
सप्ताधिक्ये दशांशे नवदशपदकेऽष्टांशहीनं क्रमेण ॥५६॥
तदेव धाम्नामग्रे तु कर्तव्यं चेन्मसूरकम् ॥ ५७ ॥
स्तम्भप्रस्तरवर्ग च प्रासादाङ्गसमं मतम् ।
एकद्विहारयुक्तं वा कुड्यं कुम्भलतान्वितम् ॥ ५८ ॥
एकद्वित्रिगुणस्तम्भव्यासं मध्ये तु भद्रकम् ।
तोरणाढयं (गुहो?सुरो)पेतसर्वावयवशोभितम् ॥ ५९ ॥
धान्नस्तु भित्तिविष्कम्भसमं वार्धिहीनकम् ।
त्रिभागैकविहीनं तद्भित्तिविष्कम्भमिप्यते ॥६० ॥
सान्तरालं सवेशं च सर्वेषां सद्मनां मुखे ।
चतुरश्रं चतुर्भक्त्या चतुरिसमन्वितम् ॥ ६१ ॥
मुखेऽमुखे द्विभक्त्यैकभक्त्या विस्तारनिर्गमम् ।
मध्यमस्तम्भकं त्यक्त्वैवोर्ध्वकूटं द्विभक्तिकम् ॥ ६२ ॥
षट्त्रिंशत्पादसंयुक्तं चतुस्सप्ताल्पनासिकम् ।
सोपानं स्याच्चतुर्दिक्षु लाङ्गलाकारभित्तिकम् ॥ ६३ ॥
पञ्जरैरष्टभिर्युक्तं पद्मकं पद्मभद्रकम् ।
स्नानार्थ तैतिलानां तु प्रासादाभिमुखे मतम् ॥ ६४ ॥
तदेवैकाननोपेतं मध्याङ्गणसमन्वितम् ।
यागादिकर्मयोग्यं स्यादिष्टतो दिशि वारणम् ॥६५॥
भद्रकं पञ्चभागेन चतुरश्रसमाकृति ।
मध्ये कूटं त्रिभागेन परितोऽशेन मण्डपम् ॥६६॥