पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
षड्विंशोऽध्य्यायः।।।।

द्विशालायास्त्रिशालाया वैपुल्यं परिकीर्तितम् ।
विस्तारात् पादमाधिक्यमर्धाधिकमथापि वा ॥ ६ ॥
त्रिपाद द्विगुणायाम तस्मात् पादार्धकं त्रिपात् ।
त्रिगुणान्तप्रमाणं चैवायामाश्चाष्टधा स्मृताः ॥ ७ ॥
सर्वे दैार्धकाणां(?) तु द्विगुणं तु नृणां मतम् ।
द्विगुणाद्यायताः सर्वे विहाराश्रमवासिनाम् ॥ ८ ॥
सर्वेषां सङ्गमोपेते द्विगुणाद्यायतं मतम् ।
विस्तारसममुत्सेधं सपादं सार्धमेव वा ॥ ९ ॥
त्रिपादं द्विगुणं चैव उत्सेधं पञ्चधा मतम् ।
शान्तिकं पौष्टिकं चैव जयदं धनमद्भुतम् ॥ १० ॥
तैतलानां द्विजादीनां पाषण्ड्याश्रमिणामपि ।
हस्त्यश्वरथयोधानां यागहोमादिशिल्पिनाम् ॥ ११ ॥
एकशाला प्रशस्ता स्यात् स्त्रीणां रूपोपजीविनाम् ।
दण्डकं मौलिकं चैव स्वस्तिकं च चतुर्मुखम् ॥ १२ ॥
सामान्यं तैतलादीनां पूर्वोक्तानां चतुष्टयम् ।
एकादिबहुभूम्यन्तं खण्डहादिमण्डितम् ॥ १३ ॥
अर्पितानर्पितं चैव प्रासाबदलङ्कतम् ।।
पुरतः पार्थयोः पृष्ठेऽलिन्द्रं कुर्यात् समन्ततः ॥ १४ ॥
नराणां च सुराणां च पाषण्ड्याश्रमिणां तथा ।
पुरतो मण्डपोपेतं पृष्ठे पार्श्वे तु भद्रकम् ॥ १५ ॥
मध्ये वासं तु देवानां पार्श्वे वासो भवेन्नृणाम् ।।
प्रागवागपरोदीच्यां पृथक्शाला प्रधानिका ॥ १६ ॥