पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९४
मयमते।।।

 सर्वेषामपि जातीनां सामान्यमिति विद्यते ।
 दक्षिणे पश्चिमे चोक्तशाला वैशेषिका नृणाम् ॥ १७ ॥
 प्रागुदक्प्रागवाक्प्रत्यगुदग्गेहं तु लाङ्गलैः ।
 वामिनो मरणं स्याद्धि श्रियै याम्ये प्रतीच्यपि ॥ १८ ॥
 अवाकूप्रत्यगुदक् सम्पत् प्रागवागपरो जयः ।
 दक्षिण पश्चिमे हीनास्त्रिशालाः सर्वदोषकाः ॥१९॥
 लाङ्गलं गणिकादीनां शूर्पमुग्रोपजीविनाम् ।
 लाङ्गले चैव शूर्पे च पृथक्शाला प्रधानिका ॥ २० ॥
 शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।
 एकसन्धि दिशालायास्त्रिशालाया द्विसन्धिकम् ॥ २१ ॥
 उक्तानां दण्डकादीनां विन्यासं च वदाम्यहम् ।
 विस्तारं तु त्रिधा कृत्वा चतुर्भागं तदायतम् ॥ २२ ॥
 द्विभागं गृहविस्तारं वारमेकांशमग्रतः ।।
 आस्यं तत्खण्डदण्डाभं वासं सर्वजनाहकम् ॥ २३ ॥
 एतद् दण्डकमित्युक्तं शालानां क्षुद्ररूपकम् ।
 विस्तारे चतुरंशे तु षडंशाधिकमायतम् ॥ २४ ॥
 द्विभागं गृहविस्तारं यंशं चक्रमणं भवेत् ।
 शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥ २५ ॥
गृहायते नन्दविभागभाजिते शरांशके दक्षिणभागमाधिकम् ।
अदक्षिणे बद्धपदं तदन्तरे विधीयतां द्वारमथैकशालके ॥
केचिंदं द्वारं मध्यसूत्रस्य वामे चाहुः शिष्टं मानुषाणां निवासे।
सर्वास्वेतास्वस्त्रशालासु शालाभागे कुर्यादायते द्वारमेकम् ॥