पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
मयमते।।।

तारयंशाधिकायामं चतुराननमण्डितम्
प्रमुखे तु चतुयशं निर्गतद्वारभद्रकम् ॥ ६१॥
पार्श्वयोपरे मुख्यवासं स्याद् द्विललाटकम् ।
मौलिभद्रमिदं नाम्ना शेषं पूर्ववदाचरेत् ।। ६२॥ .
त्रिपञ्चषोडशारनितारा हौ द्वौ प्रवर्धयेत् ।
आचतुर्विशतेासः पञ्चधोक्तस्त्रिशालके ॥ ६३ ॥
नवपतिकरारभ्य द्विद्विहस्तविवर्धनात् ।
आपञ्चोत्तरषष्टयन्तं षट्पष्टयन्तं तु विस्तृतम् ॥ १४ ॥
चतुःशालाविशालाः स्युनवविंशतिसंख्यया ।
अद्य(?) दिसप्तमानं तु संवृताङ्गणकान्वितम् ॥६५॥
विवृताङ्गणकं शेषं कुर्याद् यत्र यथोचितम् ।
आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ॥ १६ ॥
तृतीयं स्वस्तिकं चैव नन्द्यावत चतुर्थकम् ।
पञ्चमं रुचकं विद्याच्छालानामभिधानकम् ॥ ६७ ।।
तत्तदात्तविशालेन वीजं स्याच्चतुरश्रकम् ।
आत्तव्यासाद द्विहस्तेनाधिक्यजात्यायतं मतम् ॥ ६८ ॥
चतुर्हस्ताधिकं छन्द विकल्पं षट्कराधिकम् ।
आभासमष्टहस्तेनाधिक्यं दैर्ध्यमिति स्मृतम् ॥६९ ।।
अथ वैशेषिकायाममात्मांशेन विधीयते ।
आत्तव्यासं कर्मजातिढूिभागेनाधिकायतम् ॥ ७० ॥
चतुरंशाधिकं वीजाद् दीर्घ छन्दमिति स्मृतम् ।
षडंशदीर्घ विपुलाद् विकल्पमिति कथ्यते ॥१॥