पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
मयमते।।।

द्वादशास्यसमायुक्तमूर्ध्वाधस्ताद् विशेषतः ।।
चतुर्दिक्षु सभद्राङ्गद्वारशालकशोभितम् ॥ १६८ ॥
अनुक्तं हि यथा सर्व पूर्ववत् कारयेद् बुधः ।
व्यासे द्विरष्टभागे तु द्विभागं मध्यमाङ्गणम् ॥ १६९ ॥
शालाव्यासं द्विभागेन पृथुवारं तु तत्समम् ।
तहहिरिमेकांशं तद्वहिरिमेकतः ॥ १७० ॥
सालिन्द्रं चूलहाङ्गं यथायुक्ति यथारुचि ।
तस्योपरिगता शाला चतुष्कशिरसा सभा ॥ १७१ ॥
त्रितलाद्यानवतलं भूपभसुरयोग्यकम् ।
द्वाराणि भित्तयः सर्वे ह्युत्तराद्या ह्यनुक्रमात् ॥ १७२ ।।
प्रासादवदलङ्कुर्यान्नन्द्यावर्त तु जालकम् ।
यथायुक्ति यथाशोभं तथा कुयोद् विचक्षणः ॥ १७३ ॥
ऊहप्रत्यूहसर्वाङ्गैर्गेहालङ्कारमिष्यते ।
व्यासे षडंशके तत्र स्वस्तिके द्वयंशमङ्गणम् ॥ १७४ ॥
तावच्छालाविशालं स्यात् कुल्याभहारसंयुतम् ।
पृष्ठे तु दीर्घकोष्ठं स्यात् पुरतः कोष्ठकं तथा ॥ १७५ ।।
पक्षके कर्करीशाला मुखपट्टिकयान्विता ।
विना पट्टिकया पृष्ठे कोष्ठकं पृष्ठसङ्गतम् ॥ १७६ ॥
दण्डिकावारसंयुक्तं षण्णेनं भद्रसंयुतम् ।
अन्यत् प्रासादवत् सर्वमलकुर्याद् विचक्षणः ॥ १७७॥
प्राङ्मुखं स्वस्तिकं वैश्यशूद्रयोः संमतं बुधैः।
तदेवांशावृतालिन्द्रं खण्डहाभिमण्डितम् ॥ १७८ ॥