पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
मयमते।।।

पादबन्धमधिष्ठानं पादं सर्वाङ्गसंयुतम् ।
उत्तरोपरि भूतानि कपोतप्रतिसंयुतम् ।। ८६ ॥
व्यालेभमकरैः सिंहैर्नासिकाद्यैरलङ्कतम् ।
द्वारतोरणसंयुक्तं विचित्रतरभित्तिकम् ॥ ८७ ॥
खामिवासमिदं वासे कर्तव्यं चात्र मण्डपम् ।
न जातु स्वामिनो वासे वंशानुगतशायनम् ॥ ८८ ॥
खामिस्थाने स्थिताः स्तम्भा नेत्रभक्त्या प्रकीर्तिताः।
एकैकान्तरिताः पादा निरन्तरनिवेशिताः ॥८९ ॥
मूलस्तम्भार्धविस्तारा यथेष्टालङ्कतैर्युताः ।
उपर्युपरि वासानां खामिस्थानं विधीयते ॥ ९ ॥
इष्टकासुधया वापि फलकामयभित्तिकम् ।
हेमताम्रादिकं चैव राज्ञां यदि विचित्रकम् ॥ ९१ ॥
अन्नागारादिषु हौ द्वौ पाञ्चालादिलुपोच्छ्यौ ।
लुपाक्रियाक्रमं सर्वं पूर्ववत् परिकल्पयेत् ॥ ९२ ॥
धनक्षयो मन्दवेधे तीव्र स्याद् ऋणबन्धनम् ।
त्रिचूली वैश्यशूद्राणां पश्च सप्त महीभृताम् ॥ ९३ ॥
ब्राह्मणानां नवैवं तु एकादशं तु दैविकम् ।
पाषण्ड्याश्रमिणां युग्मसङ्ख्या चूली विधीयते॥१४॥
गर्भाधानं चक्रमणं काभत्तिं मुख्यवासकम् ।
शिलास्तम्भं तलं कुड्यं नृणां बासे न कारयेत् ॥९५॥
तृणाधैर्मन्मयं छायं लोष्टैश्छाद्यममृन्मयम् ।
ब्रह्मस्थानं तलं निम्नं गृहान्तस्थलमिष्यते ॥९६।।