पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । २३३ व्यासात् सपाददण्डं पञ्चदशारनिभिस्तु तत्तुङ्गः। भित्तेरभ्यन्तरतः परितो मार्गस्त्रिदण्डेन ॥ २० ॥ द्वादश भवनं दण्डान्यथ रक्षावेशनानि योज्यानि । भित्त्याभ्यन्तरतो वा बाह्याद् वा मानयेदृढतरति(?)॥ त्रिप्राकारं त्रिपथं त्रिभागयुग्धीननृपभवनयुतम् । सचतुर्गोपुरकान्तं मुखगोपुरमुन्नतं हि तत्रैव ॥ २२ ॥ निम्नं पश्चिमवेशं मुख्यं स्यात् प्राङ्मुखं भवनम् । दक्षिणमुखमपि व्यालं नोदक्प्रत्यग्दिशि सुभद्रमुखम् ।। पञ्चमुखं त्वथ राज्ञां नेष्टं स्याद् वेशनं चयं तस्य । राज्ञां श्रीदेवीनामालयकान्तरालयं केचित् ॥ २४ ॥ अथ मध्ये वाङ्गणकं शतपादयुता प्रपा वा स्यात् । दक्षिणतो राजगृहमभिषेकं स्यात् प्रतीचीतः ॥ २५॥ उत्तरदिशि भवनं स्याद् राजमहिष्यास्त्वनेकमेकतलम्। पश्चिमदिग्गतभवनं प्राङ्मुखमेवावनीपतेर्मुख्यम् ।। २६ ।। परितः परिखा बाह्ये प्राकाराण्येव द्वित्रिदण्डानि । नवदण्डविशालान्तं परिखाविपुलं समुद्दिष्टम् ॥ २७ ॥ परिखाया बहिरबहिर्मार्गविशालास्त्रिदण्डेन । परिखामूलविशालं स्वव्यासादष्टकेन भागेन ।॥ २८ ॥ गाम्भीर्याद् युक्तिवशादाकृत्या चैव पालिकाभासा। भवनस्य बहिर्देव्या यानि गृहाण्यत्र तत्र युक्त्या तु॥ तानि च दैविकभागे सम्यग् वक्ष्येऽहमत्रापि । अन्तर्मण्डलबाह्यं तु दैवतांशवशाद् गृहम् ॥ ३० ॥ 248