पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते आत्तविशालायामे पश्चांशेऽशं मुखेऽमुखे नीत्वा ॥ ९६ ॥ शेषे षण्णवभागे त्रिंशतिपञ्चांशब्रह्मवस्तु स्यात् । तस्मिन् शतपादयुतं मण्डपमन्तस्तु वेदिकापीठम् ॥९७॥ अन्तरसंयुतयत्तत्प्रासादो वा प्रवाततः परितः । पन्थाभागस्तेन समा दशखलूरिका परितः(?) ।। ९८ ॥ हारचतुष्टययुक्ता सौष्ठिककोष्ठान्विता तथा शुभदा । युक्त्यासनमिदमुदितं तन्मुखदेवांशके तु नवके वा ॥ प्रासादादिष्टांशे दक्षिणतो राजकत्वे वा। उत्तरदिश्यपि दिष्टं ज्येष्ठयुवत्यालयं तु ततः ॥ १० ॥ आर्यपदे(ह्नि ? निहितं तद्वारकहर्म्यप्रतीच्यवितनम्(?)। शाला वा ह्यभिषेका सर्वविचित्रान्विता सभा तत्र ॥१.१॥ कर्णचतुष्टयकेऽन्त(वृद्ध?ई)टपदयुक्ता सभा खलूरियुता । प्रागुत्तरादिशि सलिलं स्नानं देवालयं तु होमाग्रम् ॥ सेनालोकनहये कूटं वा प्रागवाग्दिशि यत्तत् । पश्चिमदक्षिणकोणे नृत्तकवाद्यादिलीलया च सभा ॥ उत्तरपश्चिमकोणे वासं स्याद् गीतकादिवनितानाम् । प्राच्यां दिश्यङ्गणकं दुर्गाया मेरुगोपुरकम् ॥ १०४ ॥ प्रागुत्तरदिशि सलिलं तत्क्रीडाङ्गणं च सभा तत्र । ग्रासनपानायतनं कुर्यात् स(म्यक् तु) लक्षणाभियुतम् ॥ तत्प्राग्दक्षिणकोणे मध्याङ्गणकान्विता सभा तत्र। रत्नाष्टापदवस्त्रप्रभृतीनां वासमिष्टं स्यात् ॥१०६॥ तत्परदक्षिणकोणे मध्याङ्गणकादिसंयुता च सभा। 255