चित्रज्ञः सर्वदेशज्ञश्चान्नदश्चाप्यलुब्धकः ।। |
सुनामा दृढबुद्धिश्च वास्तुविद्याब्धिपारगः। |
स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः । |
शैलदार्विष्टकादीनां सूत्रग्राहिवशात् तु (यत् ? यः) । |
मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः । |
वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा । |
गुरुभक्ताः सदा हृष्टाः स्थपत्याज्ञानुगः सदा । |
एभिर्विना हि सर्वेषां कर्म कर्तुं न शक्यते । |
एभिः स्थपत्यादिभिरत्र लोके |
इति मयमते मानोपकरणं नाम
पञ्चमोऽध्यायः ।।
१. ' सर्वज्ञः', ३. बन्धुश्च', ३. कस्विति की' ख, पाठः, 26