पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ मयमते स्थापयेत्तु तदालानान् पूर्वोक्तांश्च समन्वितम् । अनुपादार्धमानेन भित्त्युत्सेधो विधीयते ॥ १८०३ ॥ तदूधै कटकच्छाचं धाटनोद्धाटनक्षमम् । वितस्तिोस्तनं पश्चात् स्थापयेद् बहिराननम् ॥ १८१३ ॥ कारयेद्धस्तमानेन फलकाप्रस्तरं तलम् । शिलाभिर्वेष्टकाभिर्वा प्रस्तरं नैव कारयेत् ॥ १८२३ ॥ मूत्रद्वारयुतं लब्धद्वारयुक्त्या कमान्वितम् । अन्यत्सर्वं यथायुक्ति तथा कुर्याद् विचक्षणः ॥ १८३३ ।। नवाप्टसप्तषट्पञ्चहस्ते पञ्चविसारिणि । त्रयभक्त्यायै कविंशद्भक्त्यान्तायाममीरितम् ॥ १८४३ ॥ चतुर्मुखचतुश्शाला सप्रग्रीवाश्च सालकाः । दशहादशहस्तैर्वा स्तम्भव्यासं प्रकीर्तितम् ॥ १८५३ ।। त्रिचतुःपञ्चषरतैः कुड्योत्सेधं विधीयते । अभिन्नानां तु भिन्नानां भित्तिबन्ध यथेष्टतः ॥ १८६३ ॥ नेत्रभित्तौ च पृष्ठे च जालकं स्याद् गृहे गृहे ।। गृहान्ते कर्णधारा स्या(त्त ?)त्तददर्भा वयोचिताः(?) . ' अयुग्मवंशविस्तीर्णाः फलकैः प्रस्तरं तलम् । मूत्रच्छिद्रसमायुक्तं सारदारूमयेईढम् ॥ १८८३ ॥ प्रत्येकं तुरगस्थानमेकभित्तिस्ववेशनम् । सारदारुमयं कोलं द्विसप्ताङ्गुलदैर्ध्यकम् ॥ १८९३ ।। द्विव्यङ्गलं तु विस्तारं सूचिकाग्रसमन्वितम् । पश्चाद् बन्धोऽग्रबन्धे तु योजयेद् दृढखातवत् ॥ १९०१ ॥ 263