पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते प्रागुदगहारसंयुक्ता तथा मण्डपमालिका ॥ २.१ ॥ प्रासाधिकासनं मित्रे सुदृशां स्थानमण्डपम् । पञ्चादि पञ्च (पा ? मा)न्तं वा व्यासं तत्रोजसंख्यया ।। सभामण्डपशालानां सामान्यमिष्टदैर्ध्यकम् । पञ्चादशकरव्यासं त्रिसप्तारनिदैर्ध्यकम् ॥ २०३॥ सैकहादशहस्तान्तं चूल्यन्तादिमनोहरम् । शालाभिषेकयोग्या सा कर्तव्या प्रागिवानना ।। २०४॥ तदङ्गमध्यमे रङ्गसंयुक्ता च सभा भवेत् । मण्डपं दक्षिणे राज्ञां तदुदीच्यां दिशि क्रमात् ॥ २०५॥ पद्माभिषेकसंवासं धामं तत्र प्रयोजयेत् । पञ्चसप्तनवारत्निव्यासतार(त्थि ? हि)वैदिकम् ॥ २०६ ॥ त्रिचतुष्पञ्चभागं वा वेदिकोदयमीरितम् । वेदिकोदयपादोच्चं स्वव्याससममिष्यते ॥ २०७॥ अन्तःस्तंभसमायुक्तं त्यक्तमध्यस्थपादकम् । द्विषड्भिरष्टमात्रं तु त्रिपडविविशालकम् ॥ २०८ ॥ एकभक्त्यावृतं तत्र जालं तद्वद्वाहिष्प्रभम् । तुलाभाराहकं कूट मण्डपं वा प्रभा भवेत् ॥ २०९ ॥ त्रिहस्तं तोरणस्तम्भं दैर्ध्य वासं दशाङ्गुलम् । नवाष्टसप्तमात्रं वा पृष्ठभागशिखान्वितम् ॥ २१०॥ वस्तुमध्ये निधातव्यं दक्षिणोत्तरगं यथा । तोरणान्तरमुत्सेधं सममेव विधीयते ॥ २११ ॥ निविष्टविष्टकं मध्यवक्रतुण्डसमन्वितम् । 265