पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ मयमते गुल्फैः साधैर्ललाटैश्च शृङ्गायोमयपत्रकैः । - बन्नीयात् सर्वयत्नेन यथाशोभं यथाबलम् ॥ २९ ॥ मुकुलानन्तरं पत्रत्रिनेत्रा सूचिकायता। योगोदयत्रिभागैकनिखातं वा यथाबलम् ॥ ३० ॥ तल्पतीव्रस(नामा) तीव्रद्विगुणं द्विस्त्रिकान्वितम् । पद्मपत्रविचित्राणि पट्टाङ्गस्कन्धपट्टिका ॥ ३१ ॥ प्रवेशदाक्षणे तल्पे स्थापितव्या मनोहरा । सार्गला दक्षिणं योगं बामे योगं सतल्पकम् ॥ ३२ ॥ विदध्याद् वामहस्तेन तल्पं दक्षिणपाणिना । घटिकां रोपयेद् विहान् युग्मे युग्मे करेण तु ॥ ३३ ॥ घाटनोबाटने तल्पे स्वस्वनन्दांशपूजिते । भेरसिमानशब्दं च हस्तिसिंहस्वरोपमम् ॥ ३४ ॥ वीणावेणुस्वरं चैव शस्तं कन्धरगर्जितम् । कोशनं कूजनं सर्वमन्यच्चापि विनिन्दितम् ॥ ३५॥ अधस्तादुपरिष्टात्तु प्रशस्तं घाटनं समम् । सच्छिद्रान्त्यागेलत्वं च योगागंलविघट्टनम् ॥ ३६ ॥ बन्धुक्षयकर शत्रुपीडनोपद्रवं सदा । स्वयमेव पिधानं यत् स्वयमापवृतं तु तत् ॥ ३७॥ तद् द्वारं बन्धुनाशाय संपदं संपदां पदम् । वृक्षकर्णावधःस्थूणकूपवृद्ध तथैव च ॥ ३८ ॥ देवायतनविद्धं च विधिविद्धं तथैव च। वल्मीकभस्मविद्धं च सिरामर्मादिविद्धकम् ॥ ३९ ॥ 271