पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशोऽध्यायः । मात्रखण्डमिदं नाम्ना राज्ञामेतज्जयावहम् । व्यासायामे दशाष्टांशे द्वारतारं विशिष्यताम् ॥ ८४ ॥ नालीगृहे हिभागेन परितोऽन्धारमंशकम् । अंशेन परितोऽलिन्द्रं हारं भागेन योजयेत् ॥ ८५॥ द्विभागं कूटविस्तारं शालायामं षडंशकम् । विस्तारे चतुरंशेन कोष्ठकायाममिष्यते ॥ ८६ ॥ हारा भागेन कर्तव्या चूलहर्म्यसमन्विता। जलस्थलं तदेवाहुः कूटशालान्तरेऽपि वा ।। ८७ ॥ एवमादितलं प्रोक्तं द्वितले भागमुच्यते । पूर्ववन्नालिगेहं च गृहपिण्डिहरदकम् (?) ॥ ८८ ॥ अर्धेन परितः पिण्डिगोपानप्रस्तरान्वितम् । उपरिष्टान्महावारमष्टनासिसमन्वितम् ॥ ८९ ।। शिखरं कोष्ठकाकारमायामार्धन विस्तरम् । मुखेऽमुखे महानासिविभागविस्तृतान्वितम् ॥ ९० ॥ उपर्युपरि वेशं च युक्त्या मध्याङ्घिसंयुतम् ।। प्रादाक्षिण्येन सोपानमुपर्युपरि योजयेत् ॥ ९१ ॥ सोपपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् । ऊप्रत्यूहसंयुक्तं नाम्नेदं श्रीनिकेतनम् ॥ ९२ ।। त्रितलं त्रिविधं प्रोक्तं शुद्धमिश्रतयान्वितम् । नानावातायनोपेतमन्तस्सालेषु सम्मतम् ॥ १३ ॥ अधुना सप्तभौमादि चतुर्भूमांतमिष्यते । द्विसप्ताष्टांशके व्यासाद् द्वारे द्वारं विशिष्यताम् ॥ १४ ॥ 276