पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकत्रिंशोऽध्यायः । भारो भारोपधानं च अक्षमक्षोत्तरं तथा । कूबरः कूबरस्याग्रे द्वयपट्टैश्च कीलकैः ॥ ४७ ॥ तत्तद्योगैश्च तत्स्थाने बन्धयेश्चाभवेदपि(?)। अक्षमक्षोत्तरं मध्ये दारुकीलं प्रयोजयेत् ॥ १८ ॥ सर्वराजाधिपत्यैश्च राजयुद्धैर्महोत्सवैः । मङ्गले देवपूजायां सोमयागं तथैव च ॥४९॥ इत्येव कर्मणादिष्टं रथारोहणमिष्यते । वासहित्रिगुणायामं वकं तत्तत्समन्वितम् ॥५०॥ सप्ततालं तु वा दैर्घ्यं त्रिचतुर्मात्रविस्तृतम् । स्वस्वपादवशात् तत्र पूर्व चाधरतो दिशि ॥ ५१॥ हारोपर्यन्तरोपेतं हस्वपादोत्तरान्वितम् । चतुष्पष्टिकसंख्याभिः स्तम्भयुक्तसमन्वितम् ॥ ५२ ॥ षट्सार्धपश्चपञ्चैव तालेन चरणोदयम्।। सप्ततालं तुलादैर्घ्य त्रिचतुर्मात्रविस्तरम् ॥ ५३ ॥ स्वस्वपादवशात् तत्र पूर्ववञ्चोत्तरादिकम् । एकद्वित्रितलोपेतमेकं वाथ चतुर्मुखम् ॥ ५४ ॥ मण्डपाकारसंयुक्तं शालाकारशिरःक्रियम् । त्रिचतुष्पञ्चषट्सप्तहस्तचक्रान्तमिष्यते ॥ ५५ ॥ चक्रोत्सेधं चतुष्पश्चषट्क+वेष्टतीवकम् । अक्षमक्षोत्तरं चैव वारो वा यानकं यथा ॥ ५६ ॥ अष्टाष्ट(दि?वि)पुलोत्तुङ्गैर्दारुकीलैदृढीकृतम् ।। एकद्वित्रितलोपेतैःप्रासादवदलङ्कृतम् ॥ ५७ ॥ 284