पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ . मयमते तीक्ष्णशस्त्रेण महता यष्टिलेन प्रहारयेत् । इष्टायामविशालाभ्यामधिकं ग्राह्य यत्नतः ॥ ३० ॥ चतुरश्रसमं कृत्वा मुखभागं विचिन्त्य च । शुद्धिं कृत्वार्चयित्वा तु गन्धाचैविधिपूर्वकम् ॥ ३१ ॥ लिङ्गं वा पिण्डिकां बेरमोपलं बार्कमेव वा । वस्त्रैरावेष्टयित्वा तु रथे संस्थाप्य यत्नतः॥ ३२ ॥ सर्वमङ्गलसंयुक्तमानीयात् कर्ममण्डपे । यथोक्तविधिना सम्यक् कुर्यादन्तरितेन च ॥ ३३ ॥ यथोक्तविधिना नैव लभ्यते यदि पिण्डिका । गृहीत्वान्यत्र पूर्वोक्तविधिना तदुदग्दिशि ॥ ३४ ॥ नीत्वा तत्र खनित्वा तु शुभऋक्षमुहूर्तके । गृहीत्वा विधिवद्धुत्वा शुद्धिं कृत्वाम्भसा ततः॥ ३५ ॥ गन्धाद्यैरर्चयित्वा तु सर्वमङ्गलघोषणैः । आनीयात् कर्म पूर्वत्र दिशि कोष्ठाद्विमुच्यते ॥ ३६ ॥ लिङ्गमानाद् विमानं वा लिङ्ग वा हर्म्यमानतः । गर्भमध्ये च सूत्रात् तु बामेऽर्चालिङ्गमेव वा ॥ ३७ ॥ स्थापयेत् किञ्चिदंशं तु आश्रयित्वा विचक्षणः । त्रिःसप्तांशे कृते द्वारे ब्राह्मेऽशे मध्यमे भवेत् ॥ ३८ ॥ कृत्वा षडंशकं तच्च वामे व्यंशं व्यपोह्य च । तदंशमग्रं नीत्वा तु प्रागुदग्गतसूत्रकम् ॥ ३९ ॥ तद् ब्रह्मसूत्रमित्युक्तं तत्सूत्रं शिवमध्यमम् । गर्भार्धमधमं श्रेष्ठं पश्चत्रिंशं शिवायतम् ॥ ४०॥ 291