पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते प्रवृद्ध्योत्तुङ्गमात्तव्यं तत्र दोषो न विद्यते । पञ्चपञ्चाङ्गुलं मूलाद् वृद्धयाष्टककलाङ्गलैः ॥ ५२॥ वृधा लिङ्गायतं शस्तं प्रत्येक नवमानकम् । क्षुद्राल्पमध्यमोत्कृष्टहाणामदितं क्रमात् ॥ ५३॥ द्वारोदयसमं श्रेष्ठ विभागोनं कनिष्ठकम् । स्तम्भोत्सेधेनवांशे तु मुनिभूतांशकोदयम् ॥ ५४ ॥ तत्तद्गर्भेऽष्टधा भक्ते नव लिङ्गोदयाः स्मृताः । नागरादिषु सौधेषु प्रोक्तव्यासानि पूर्ववत् ॥ ५५॥ प्रासादशिखरग्रीवस्तूप्योऽधिष्ठानमानकैः। केचिद् वदन्ति मुनयः कुम्भयोन्यादयो वराः ॥ ५६ ।। ग्रीवोत्सेधस्य मानं तु मानाङ्गलैविभाजेयत् । वृडया हान्याङ्गलिच्छेदं परिहत्य विचक्षणः ॥ ५७ ।। उत्सेधेऽष्टगुणैः सप्तविंशद्भिहरण ततः । शेषमश्वयुजाद्यं तु नक्षत्रं तु चतुर्गुणे ॥ ५८ ॥ नवभिहरणे शिष्टमंशकं तस्करादिकम् । भुक्तिः शक्तिर्धन राजा पण्डश्चाभयकं विपत् ॥ ५९॥ समृद्धिरिति विख्यातान्यंशकानि नव क्रमात् ।। तस्करं च विपत् षण्डं निन्दितं वस्तुपारगैः ॥ १० ॥ उत्तुङ्गवसुनन्दाग्निगुणैकांशाप्टभिहते । शिष्टं धनमृणं चैव योनिकं स्याद् यथाक्रमम् ॥ ६१॥ धनाधिकमृणं क्षीणं मानं तत् सम्पदां पदम् । योनिपु बजसिंहश्च वृषो हस्ती शुभावहाः ॥ ६२ ॥ 293