पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते २८० धनदमिह विशां वै शम्भुभागाधिकं य- च्छुभदमथ परेषां स्वस्तिकं तच्चतुर्णाम् ॥ ७३ ॥ त्रिंशहागे सर्वतोभद्रलिङ्गे मूले मध्यऽ(ग्रे) दशांशं क्रमेण। वृत्तं तुल्यं सर्वतः शम्भुभागं विप्राणां तद् भूपतीनां प्रशस्तम् ।। वेदभूतरसभागिकैरथो भूतषण्मुनिपदैरधः पदम् । षट्कसप्तवसुभागया ततः सप्तनागनवभागया पुनः ।। ७५ ।। वर्धमानमुदितं चतुर्विधं ब्रह्मविष्णुशिवभागतः क्रमात् । सर्वसम्पदुदयं जयप्रदं पुत्रवृद्धिदमिदं महीभृताम् ॥ ७६ ॥ सप्तसप्तवसुभागया ततः पञ्चपञ्चकषडंशकैरपि । वेदवेदशरभागया ततो बध्य बन्धयुगभागया पुनः॥ उक्तमत्र हि मया चतुर्विधं तच्छिवाधिकमजादिभागिके । . सर्ववस्तुदमिदं विशालकं सर्ववर्णयमिनामुदीरितम् ॥ ७८ ॥ उक्तायामे स्वस्तिके नागभागे मूले यशं मध्यभागे गुणांशम् । पूजाभागे चातुरंशं क्रमेण चोक्तं शूद्रे सर्वकामप्रद तत् ॥ ७९ ॥ लिङ्गप्रमाणं समाप्तम् । लिङ्गं सुरार्चितं धारालिङ्गं साहस्रलिङ्गकम् । त्रैराशिकं तु सर्वेषां सर्वकामफलप्रदम् ॥ ८ ॥ इष्टायामसमोपेतं स्वायामार्धाधविस्तरम् । शेषं पूर्ववदुद्दिष्टं नाम्ना सुरगणार्चितम् ॥ ८१ ॥ धारालिङ्गं सर्वलिङ्गे मतं तलाश्रं वा कलाश्रं युगाश्रम् (?)। तस्मादृर्वे डैगुणं(स्यात् )सधारं धारालिङ्गं सर्ववर्णे प्रशस्तम्॥ 295