पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते शिरसो वर्तनमधुना लिङ्गानां वक्ष्यते क्रमशः ॥ ९२ ॥ छत्राभा पुषामा कुकुटकाण्डार्धचन्द्रसदृशा याः। बुहुदसदृशाः पञ्चैवोद्दिष्टा वर्तना मुनिभिः ॥ १३ ॥ व्यासे षोडशभागे लिङ्गस्यैकद्विगुणयुगांशेषु । संलम्ब्याधोभागानुभयोरपि पार्श्वयोः क्रमशः ॥ ९४ ॥ छत्राभानि शिरांसि च चत्वारीह प्रवर्तते विधिना। समलिङ्गे प्रथमे हे शैवाधिकलिङ्गकेतृतीयं स्यात्॥१५॥ चतुरंशेषु यदुक्तं तत् प्रोक्तं वर्धमानस्य । सङ्करमन्योन्यं वाप्यशुभं स्याद् वर्तनानां च ॥ ९६ ॥ उञ्चार्ध कुक्कुटजं व्यंशेकांशेन्दुखण्डनिभम् ।। बुहृदसदृशं सार्ध त्र्यंशं व्यासेऽष्टभागे तु ॥ ९७ ॥ सर्वेषामपि चैताः सामान्या (वर्तना)स्तु लिङ्गानाम् । शिरसो वर्तनभागं त्र्यंशैकं चाधिरोप्य निजतुङ्गे ॥९८॥ लिङ्गायामयुते पड्भागयुते तेन सार्धमतः । इन्द्वश्विनिगुणभागाः प्रोक्ताः सर्वेष्वपि क्रमशः ॥ ९९ ॥ अवरे मध्यमलिङ्गे श्रेष्ठे लिङ्गे ततः शिरोमानम् ॥ ९९ ॥ लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य वा पार्श्वयोः कृत्वा मत्स्ययुतं तदास्यजधनान्निष्क्रान्तसूत्रहये । तस्माद् यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा कर्तव्यं बहुवर्तनास्वभिमतं सोपायमीशोदितम्॥१०.३॥ शिरोवर्तमानं समाप्तम्। वक्ष्येऽहं लिङ्गानां सर्वपां लक्षणोद्धरणम् । शाणाभिस्तनुवालुकसहितैर्गोवालरज्ज्वाद्यैः ॥ १.१३ ॥ 297