पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ मयमते लोहेन पूजितं कल्प्य भुक्तिमुक्तिफलप्रदम् । लिङ्गं शिलेतरं सर्व मणिलिङ्गमिति स्मृतम् ॥ १५५ ॥ स्वयोन्या वाथ लोहेन स्फाटिकादिषु पिण्डिका । स्वस्वयोग्यानि लोहानि स्फाटिकान्येषु पीठकम् ॥१५६॥ स्थाप्यते लोहपीठे तु रत्नजं तु स्थितियथा । संकल्पकवशादत्र ब्रह्मविष्णुमहेश्वराः ॥ १५७ ॥ युक्त्या योज्यं बुधलिङ्गं भुक्तिमुक्तिप्रसिद्धये। बाणलिङ्गं यथालाभं तत्तत् सम्यग् निधापयेत् ॥ १५८ ॥ पञ्चत्रिभागमुच्चार्धं त्रिग्रंशं वार्चनाहकम् । भागं शेषांशकं पीठं बन्धं स्याद् बाणलिङ्गके ॥ १५९॥ रेखाबिन्दुकलङ्काद्यैर्वैवण्यैर्मक्षिकापदैः । त्रासैस्तु शर्कराभिस्ते मणयो वर्जिता भृशम् ॥ १६०॥ लिङ्गे महत्यधिष्ठाने चार्धे स्थिते च मध्यने । समाप्तौ च विमाने स्यात् कन्यसं स्थापयेद् बुधः ॥११॥ एवं स्थाप्यं लिङ्गमुक्तप्रकारं श्रीसौभाग्यारोग्यभोग्यप्रदायि । उक्तादन्यद् यत् कृतं तद् विपत्त्य पत्युर्नित्यं रोगशोकप्रदं स्यात् ।। १६२ ॥ इति मयमते वस्तुशास्ले लिङ्गलक्षणं नाम त्रयस्त्रिंशोऽध्यायः। - - - 303