पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
गयमते

शतहस्तसमुत्सेधात् सप्तत्या निविस्तरात् ।।
नेष्यतेऽधिकमानं तु सर्वथा तहिचक्षणैः ।। २६ ॥
क्षुद्राल्पमध्यमवरादिविमानकानां
व्यामिश्रहस्तकयुजां विपुलोच्चभेदम् ।।
युक्त्या यथोदितमजाद्यमरेश्वराणां
नृणां तथैव कथितं हि मया पुराणैः ॥ २७ ॥

मयमते वस्तुशास्त्रे भूलभविधानो नाम


एकादशोऽध्यायः ।


अथ द्वादशोऽध्यायः ।


तैतिलानां द्विजातीनां वैर्णानां हुयके गृहे।
गर्भन्यासविधिः सम्यक् संक्षपाद बक्ष्यतेऽधुना ॥ १ ॥
सर्वद्रव्यैस्तु सम्पन्न गर्ने तन सम्पदा पदम् ।
द्रव्यहीनमसम्पन्नं गर्भ सर्व विपत्करम् ॥ २ ॥
तस्मात् सर्वप्रयत्नन गर्ने सम्यग विनिक्षिपेत् ।
गर्भश्वभ्रस्य गाम्भीर्य स्वाधिष्ठानोन्नतैः समम् ॥ ३ ॥
चतुरश्रसमं कुर्यात गतमिष्टक्याश्मना ।
आपूर्य सलिलं तस्य मूले सर्वमृदं क्षिपेत् ॥ ४ ॥
निम्नगाहूदसस्यादिपैल्लिके कुलिरावटे ।
हलस्थलब्धिगोशृङ्गेहस्तिदन्तेषु मृत्तिका ॥ ५॥


 १. 'च', २. हाणां', ३. वल्मीक' ख. पाठः, 'ल' क. पाठः, ५. झे', ६. 'काः' ख. पाठः. ४. 67