पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
मयमते

हेमगर्भसभागों द्वारस्तम्भे विधीयते ।
पूर्वोक्तेकर्णपादे वा गर्भस्थानं तु तस्य वै ॥ ९३ ॥
तुलाभाराभिषेकार्थे मण्डपे वाथ तद् भवेत् ।
पाषण्ड्याश्रमिण वासे तत्तचिह्न तु गर्भकम् ॥ ९४ ॥
जात्यन्तराणां सर्वेषां तत्तचिह्न प्रयोजयेत् ।।
गृहिणी गर्भिणी कर्तुयेदि गर्भ न निक्षपेत् ॥ ९५ ।।
रत्नानि धातवश्चैव स्वल्पविस्तारभाजने ।
तदैवस्थानभावशैन्यस्तैव्यानीह तानि वै ॥ १६ ॥
हारप्रदक्षिणे स्थाने स्वामिस्थानस्य दक्षिणे ।।
अभ्यन्तरमुखं गर्भ वस्तुमध्ये बहिर्मुखम् ॥ ९७ ॥
इदं मन्त्रं समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ।।
पूर्वोक्तविधिना सम्यक् स्थापयेतु स्थपतिः क्रमात् ॥ ९८ ॥

 अयं मन्त्रः----‘स्वरदेवताभ्यो मन्त्रेभ्यः स्वाहाँ । सर्वरत्ना- धिपतये स्वाहा । उत्तमप्रजापतये सत्यवादिने नमः । श्रियै नमः । सरस्वत्यै नमॅः । वैवस्वताय नमः । वज्रपाणये नमः । अभिनवसर्वविघ्पशमनाय नमः । नमो वह्नये स्वाहा ॥”

वापीकूपतटाके तु दीर्घिकासेतुबन्धने ।
मत्स्यमण्डूककुलिरं सर्प वै शिशुमारकम् ।। ९९ ॥
हेमजं तदुदग्भागे पूर्वायां दिशि वाथवा ।।
पुरुषाञ्जलिमात्रे तु श्वझे पात्रं निधापयेत् ॥ १० ॥


 १. ‘हिरण्यग', ३ ‘ते’ ग्व. पाटः. ३. श्वें', ४. 'दे', ५. *म्तानि तानि विधास्यताम् ।', ६, “हा । ॐ नमः प्र’ क. पाठः, ७. 'मः । बञ्ज' ग्व, पोटः.