पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
मयमले

त्रिःषडंशसमभागिके तले नागवक्रसदृशं प्रतिद्वयम् ।।
देवविप्रनृपमन्दिरेषु तद्योग्यकं छुरगबन्धकं भवेत् ॥

अंशाध्यधर्धभागैर्मुनिरसशशिभिश्चन्द्रदृक्छेवभागैः
क्षुद्रोपानाजकम्पं जगतिकुमुदकं धारया युक्तमूवें ।
आलिङ्गान्तादिकं तत्प्रतिमुखमथ ताजने पद्मयुक्तं
त्रिःसप्तांशे तलोचे करिहरिमकरव्यालरूपादि भूष्यम् ॥ २३ ।।

प्रतिक्रमं तत् सुरमन्दिरोचित
विचित्रित पत्रलतादिरूपकैः ।
द्विजन्मभूमीश्वरयोर्मतं गृहे
इभप्रभं पुष्टिकरं जयावहम् ॥ २४ ॥

एकट्येकेन षभिः शशिशिवशशिभिर्बन्धचन्द्रकभागै-
यॆशैकेनांशनेत्रेः शिवशशिसमभागोनजन्माजकं च ।
वघं पद्म गलाजं कुमुदमुपरि पद्म च कम्पं गलं तत्
कम्पं पद्मं च पट्टीकमलमुपरि(त?क)म्पं च पड्रिंशदंशे ।।
पद्मकेसरमेतदुदाहृतं कम्पवाजनपङ्कज़कैर्युतम् ।
कुम्भवप्रयुतं च सकन्धरं शम्भुधामनि तत् प्रविधीयते ।।२६॥
भागेष्वेकाधकाधैस्तदुपरि चतुरशैस्तथाशकाधैं-
र्यशार्धद्विभागैस्तदुपरि तथाशकाधेन जन्मम् ।
वप्न कञ्ज गलानं तदुपरि कुमुदं पङ्कजं कम्पकण्ठं ।
कम्यं पद्म महावाजनमुपरिदलं कम्पकं कण्ठजाळ्यम् ॥