पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
चतुर्दशोऽध्यायः ।

मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ।।
तलं कुट्टिममाद्यङ्गं पर्यायवचनानि हि ॥ ४० ॥
यावज्जगतिनिष्कान्तं तावत् कुमुदनिगमम् ।।
अम्बुजानां तु सर्वेषामुत्सेधसमनिर्गमम् ॥ ४१ ।।
दलाग्रतीत्रमुत्सेधात् पादं पदार्धमेव वा ।
वेत्राणामपि सर्वेषां चतुर्भागैकनिर्गमम् ॥ ४२ ।।
तत्सम वा त्रिपादं वा महावाजननिर्गमम् ।।
एवं तीव्रक्रमं प्रोक्तं शोभाबलवशात् तु वा ॥ ४३ ।।
प्रवेशनिर्गमं कुर्यात् सर्वाङ्गानां मसूरके ।।
प्रतिच्छेदं न कर्तव्यं सर्वत्रैवं विचक्षणैः ।। ४४ ।।
द्वारार्थं यत् प्रतिच्छेदं सम्पद्वारं च नेत्यलम् ।।
पदबन्धमधिष्ठानं छदनीयं यथोचितम् ॥ ४५ ॥
जन्मादिपञ्चवर्गे तु तत्ततुङ्गावसानके ।
सपट्टिकाङ्गेऽधिष्ठानेऽप्यन्यस्मिन्नेवमूह्यताम् ।। ४६ ।।
यद् यत्रैवोचितं प्राज्ञस्तत् तत्रैव प्रयोजयेत् ।। ४६ ॥
स्तम्भोच्चाधे वा मसूरोच्चमानं
तत् षट्सप्ताष्टांशकं भागहीनम् ।।
वस्त्वाधारोचं भवेत् सर्ववस्तु-
प्वेवं पूर्व शम्भुना सम्यगुक्तम् ॥ ४७३ ॥

इति मयमते वस्तुशास्त्रे अधिष्ठानविधानो नाम

चतुर्दशोऽध्यायः।