पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
भयमते

अथ पञ्चदशोऽध्यायः ।।

पादायाम सविस्तारमाकारं भूषणादिकम् ।
लक्षणान्तरतः सम्यग् वक्ष्ये संक्षेपतः कमात् ।। १ ॥
स्थाणुः स्थूणश्च पादश्च जङ्घा च चरणोऽघ्रिकः ।
रंतम्भश्च तलिपः कम्पः पर्यायवचनानि हि ॥ २ ॥
स(ते ? वित)स्त्यष्टहस्तोत्रं द्वादशक्ष्माद्यपादकम् ।
तत्तद्वितस्तिहीनेन त्रिकरं चान्त्यभूमिके ॥ ३ ॥
आत्तोसेधांशमानेन पादोच्चं वा विधीयते ।
आत्ताधिष्ठानतुङ्गस्य द्विगुणं पादतुङ्गकम् ॥ ४ ॥
द्विगुणादधिकोत्सेधः स्तम्भः प्रोक्तः स्वयंभुवा ।
अष्टविंशतिमात्रैस्तु मूलभूस्तम्भविस्तृतम् ॥ ५ ॥
तत्तयङ्गुलभिन्नेन घण्मात्रं चान्त्यभूमिके।
पादोच्चे पङ्किनन्दातृभागेऽशं पादविस्तृतम् ॥ ६ ॥
तदर्ध वा त्रिभागोनं चतुर्भागोनमेव वा ।
कुड्यस्तम्भस्य विस्तारस्तेन द्वित्रिचतुर्गुणः ॥ ७ ॥
पञ्चषड्गुण एवं स्याद् भित्तिविष्कम्भ इष्यते।।
जन्मो(धैं?) स्तम्भविक्षेपहोमाः स्तम्भविधौ विदुः ॥ ८ ॥
प्रतिस्तम्भः प्रतेरूध्वें चोत्तराधो हितोयतिः ।
जन्मो(धैवें) स्तम्भनिक्षेपः स्तम्भायामस्त्रिभागभाक् ॥९॥
गाम्भीर्यमवर्ट कृत्वा तदुपज्ञत(लं) कुरु ।
पादुकाद्युत्तरान्तस्थो निखातस्तम्भ इष्यते ॥ १० ॥