पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
मयमते

मुक्तोत्करणकर्माङ्ग पिण्डिपादं तदेव हि ।
कर्णीयामेन चाग्रे तु चतुरश्रसमन्वितम् ॥ २२ ॥
तदधस्त्वर्धदण्डेन पद्म वस्वश्रसंयुतम् ।।
तदधस्तु विकाराचं दण्डेनाब्जं तु पूर्ववत् ॥ २३ ॥
तदधो दण्डमानेन मध्यपट्टे युगाश्रकम् ।
पद्मं च षोडशाश्रं च पूर्ववत् परिकल्पयेत् ॥ २४ ॥
मूले शेषं युगात्रं स्याचित्रखण्डं तदुच्यते ।।
तदेवाष्टाश्रकं मध्यपट्टे श्रीखण्डमुच्यते ॥ २५ ॥
मध्यपट्टे कलाश्रं चेच्छ्रीवज्रस्तम्भमुच्यते ।
अग्राकारं युगात्रं स्यात् त्रिपट्टक्षेपणान्वितम् ॥ २६ ॥
क्षेपणस्तम्भमित्युक्तं पट्टे पत्राद्विशोभितम् ।
ऊध्वधस्ताच्छिखामानं त्रिचतुभगमेव वा ॥ २७ ॥
सर्वे पोतिकया युक्ता नानारूपैर्विचित्रिताः ।।
पादाग्रविपुलं यत्तु तद् दण्डमिति कथ्यते ॥ २८ ॥
स(भ्य?ण्य)ङ्गानि हम्याणां मानयेद् दण्डमानतः ।
सपादं सार्धपादोनद्विगुणं द्विगुणोन्नतम् ॥ २९ ॥
श्रीकर चन्द्रकान्तं च सौमुख्य प्रियदर्शनम् ।
यथाक्रमेण नामानि कलशानां भवन्ति हि ॥ ३० ॥
पोतिकाखण्डमध्यं च कुम्भं स्कन्धं च पद्मकम् ।
मालास्थानं क्रमेणैव स्तम्भाग्रात् परिकल्पयेत् ॥ ३१ ॥
कुम्भोच्छुये नवांशे दृगूभागेन चतुरंशकैः ।
कमलं कण्ठमंशेन भागेनास्यं प्रकीर्तितम् ॥ ३२ ॥