पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
मयमते

सप्तपर्णश्च बिल्वश्च पलाशः कुटचस्तथा ।।
पीलुः श्लेष्मातकी लोध्रः कदम्बः पारिजातकः॥१०९॥
शिरीषः कोविदारश्च तिन्त्रिणीको महाद्रुमः।
शिलीन्ध्रः सर्पमारश्च शल्मली सरलस्तथा ॥११०॥
किंशुकश्चारिमेदश्चाभयाक्षामलकद्रुमाः ।
कपित्थः कण्टकश्चैव पुत्रजीवश्च डुण्डुकाः ॥ १११ ॥
कारस्करः करञ्जश्च वरणश्चाश्वमारकः ।
बदरो वकुलः पिण्डी पद्मकस्तिलकस्तथा ॥ ११२ ॥
पाटल्यगरुकर्पूरावग्राह्यो गृहकर्मणि ।
देवयोग्या इमे सर्वे मानुपाणामनर्थदाः ॥ ११३ ॥
तस्मात् सर्वप्रयत्नेन गृहीयान्न नरालये।
ऊषरं पाण्डुरं कृष्णचिकणं ताम्रपुटकम् ॥ ११४ ॥
मृदश्चतस्रस्तावेव गृहीयात् ताम्रपुल्लकम् ।
अशर्कराश्ममूलास्थिलोप्टं सतनुवालुकम् ॥ ११५ ॥
एकवर्णं सुखस्पर्शमिष्टं लोष्टेष्टकादिपु ।
मृत्खण्डं पूरयेदये जानुदन्ने जले ततः ॥ ११६ ॥
आलोड्य मर्दयेत् पद्भयां चत्वारिंशत् पुनः पुनः।
क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैरपि ॥ ११७ ॥
त्रिफलाम्बुभिरासिक्त्वा मर्दयेन्मासमात्रकम् ।
चतुष्पञ्चषडप्टाभिर्मात्रैस्तद्विगुणायताः ॥ ११८ ॥
व्यासार्धात्रिभागैकतीव्रा मध्ये परेऽपरे ।
इटका बहुशः शोप्याः समदग्धाः पुनश्च ताः ॥ ११९ ।।