पृष्ठम्:महाभास्करीयम्.djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्टिशतत्रयनिघ्नो वर्षगणो ग्रहतनुः सदा कथितः । तेन' समेता विहगा' ध्रुवका इति कीर्तिताः' सद्भिः ॥२९॥ मधुसितदिवसाद्यो हीनहीनो गणोऽह्नां दिविचरहृतशिष्टो वारमाहाब्दपादिम् । अत इदमपि शोध्यं शोधनीयं समायां [ महाभास्करीये पतितसमतिरिक्तो गृह्यते नापरोऽत्र ||३०|| सप्तत्या दिवसाद्याश्शरभागा' द्विगुणिता विघटिकाश्च । तद्रहितो ग्रहदेहो रविबुधभृगवश्च निर्दिष्टाः |॥३१॥ कुमुदवनसुबन्धो रन्ध्रवर्गो द्वियुक्तो ग्रहतनुगुणकारी भागहारः प्रदिष्ट: । शरयमयमलाख्यो भागपूर्वोऽत्र लाभो 'घृणमपि शिवनिघ्ने खेन्द्रियाप्ता विलिप्ताः ॥ ३२॥ भागाः खत्रिघनांशास्त्रिरुद्रगुणिते विलिप्तिका ज्ञेयाः । षड्भिः शतैविभक्ते विंशत्यंशो रवेश्च तमः ॥ ३३॥ अचलहतनवांशा लिप्तिका रुद्रनिघ्ने 'गगनरस विभक्ते लिप्तिकास्ता विपूर्वाः । ग्रहतनुखयमांशास्तत्परा: शोधनीया दशलवसमवेत`श्चन्द्रतुङ्गः स भानोः ||३४|| भूभृद्रामहतां हरेच्छतगुणै" " रन्धैर्ग्रहाणां तनुं " भागाद्यास्फुजितो विमौरिकगणा" भागे शतेनोद्धृते । रामांशेन युतं रवेश्च सकलं द्विघ्नाद्ववेश्शोधये- त्क्षेपः सोमजसोमयोः कृतगुण: सूर्योऽथ विश्वाहतः ॥ ३५॥ व्योमशून्यनेत्रभाजिते फलं राशयोऽष्टभाजितेऽथ लिप्तिकाः । ३ वारमा- ५ ६ " तेन Missing from C. बिभागा C. ध्रुवका इति कीर्तित: B. सान्दवादि: A, B. सप्तद्या दिवसाद्याश्शरभाभागा C. ह्युगमविशिखनिघ्नो वेन्द्रि- याप्तावलिप्ता: A; ह्युणमविशिखनिष्ठो वेन्द्रियाप्ता विलिप्ता: B. खत्रिदिनाशास्त्रिरुद्र- गुणिते A; खत्रिघनांशास्त्रितरुद्रगुणिते C. ` ° समुपेत्: A, B. ° हरेच्छरगुणे A, B. मौरिकगणा A, B; भागाद्यास्फुजितोपि मौरिकगुणो C. बिलिप्तागणाः | 'लिप्तिकां विदुः A, B. ' गगनरसविभक्तलिप्तिकास्तापिपूर्वा: A, B. १९ ° ग्रहाणान्तरं C. १२ भागाद्यास्थजितोऽपि - १* विमोरिकगणा: means 0