पृष्ठम्:महाभास्करीयम्.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ७ [ महाभास्करीये तदेव केवलं पूर्वं चक्रार्धं तेन वर्जितम् । चक्रार्धं तच्च चक्राच्च शुद्धं स स्फुटो रविः ||२२।। प्रतिमण्डलसंसिद्धिरेषा सम्यक् प्रकीर्तिता । स्वान्त्यं फलं च सर्वेषामुच्यते प्रतिमण्डलम् ||२३|| स्फुट स्वदेशमध्यार्कविश्लेषान्तरसंगुणा । भुक्तिश्चक्रकलावाप्तं' पूर्ववत्तद्” भुजान्तरम् ।।२४।। त्रयोदशहता ' जीवा त्रिस्फुटस्य विवस्वतः | द्वांत्रिंशता हृता क्रान्तिः परिशेषस्तु पूर्ववत् ||२५|| चरप्राणहता' भुक्तिरहोरात्र सुभाजिता । उदयास्तमयोः शुद्धिः क्षेपश्चोत्तरगे रवौ ॥२६॥ व्यत्ययो दक्षिणे भानावन्येषामनुपाततः' । फलं च तद्वशाद्विद्धि" क्षेपः शोधनमेव वा ॥ २७॥ उदक्चरार्धसंयुक्तः पादोऽहोरात्रसम्भवः” । दिनार्धं दक्षिणे हीनं " राज्यधं तद्विपर्ययात् ||२८|| सूर्यबाहुहता भुक्तिर्मंध्या चक्रकलाहता" । भास्करस्य वशात् क्षेपः शुद्धिर्वापि निशाकृतः ॥ २९॥ शेषं विवस्वता तुल्यं कर्म चन्द्रस्य कीर्तितम् । भास्वद्भुजाफलेनैव शेषाणां तु प्रकल्पयेत् ||३०|| स्फुटार्कोन: " शशी छेद्यो लिप्ताभिः खद्विभूधरैः" । तिथयस्तत्र लभ्यन्ते शेषं षष्ट्या" समाहतम् ॥३१॥ छिन्द्याद् भुक्तिविशेषेण घटीविघटिकासवः । तिथेश्शेषो" गतो वापि निर्दिष्टो भास्करोदयात् ॥३२॥

  • स्थान्त्यं C.

६ ' संशुद्धं चक्रोच्च: A; संयुक्तं चक्रोच्च: B; चक्राच्च संशुद्ध: C. • चक्रकलाप्राप्ता A, B. पूर्व C " त्रयो शुहता B. चरप्राणाहता C. 'भुक्तिरहोमात्रासुभाजिता B; भुक्तिरहोरात्रन्तभाजिता C. ' उदयास्तगयो: A, B; १० फलं 'भानावन्येषामनुपात्ततः A, B ; भानामन्येषामनुपातत: C. उदयास्तमययो: C. भास्त्रद्वशाद्विद्धि A; फलं च तद्वशासिद्धि C. रार्धसंयुक्तः वादोहो° B. १२ होने C. १४ स्फुटॉर्थोन: A, B. B. १७ तिथि: शेषो A, B. " " उदक्परार्धसंयुक्तः पादा हो° A; उदक्प- भुक्तिर्मध्यचन्द्रकला ° A, B; °चक्रकलामता C. षष्ट्या समं न्यसेत् A; षष्ठ्या समभ्यसेत् १५.. “खभूधरै: C. १६