८२ महार्थमञ्जरी व्योत्पन्नं तद् योगिभिरभिव्यज्यत इति वक्तुं शक्यम् | तस्य तादृक्सङ्क- ल्पव्यतिरेकेणोपादानान्तरशून्यत्वात् । यदुक्तं श्रीप्रत्यभिज्ञायां - “चिदात्मैव हि देवोऽन्तः स्थितमिच्छावशाद बहिः । योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥” इति । सौजन्यतः कथायां तु संवित्स्वभावायत्तायां सत्तायां न कश्चित् पुष्पान्तरात् खपुष्पस्य भेदः | मायीयसत्तानुरोधे तु विधिनिषेधोभ- यव्यवहारौचित्यमन्यपुप्पाणाम् । अन्तरिक्षप्रसूनस्य तु निषेधविषयमात्रा- मिलापयोग्यत्वमित्यलमितरजनसुलभपद कपल्लवावखण्डन (?) पाण्डित्यप्रद- र्शनेन ॥ ३२ ॥ नन्वासतामेते विगीता व्योमकुसुमादयः, यत्र सूकीभावो दूषणं भूषणं वेति नात्यन्तं निश्चितम् | यौ पुनर्भावाभावौ लोकव्यवहारसिद्धौ, तत्र कथमिदमभेदवादवैदग्ध्यमित्याशङ्कयाह - Base माणिकमरदंआण व भावाभावाण भेदपडिभासं । एक्करसो अण्णोष्णं दोण्ण वि उत्फुसइ फुरणसम्भेओ || माणिक्यमरतकयोरिव भावाभावयोर्भेदप्रतिभासम् । एकरसोऽन्योन्यं द्वयोरप्युन्मार्ष्टि स्फुरणसंभेदः || इति । विश्वव्यवहारोऽपि हि स्तम्भकुम्भादेर्भावस्य तदभावस्य च द्वयोरन्योन्यं प्रतियोग्यनुयोगिभावात्रातो भेदप्रतिभासः परस्परवैलक्ष- ण्येनावधारणं तं, तयोः स्फुरणसम्भेद एवोन्मार्टि युक्त्या तिरस्करोति । प्रकाशमानता हि स्फुरणम् । सैव संभेदः सम्बन्धः । स चैकरसः पदार्थद्वयं प्रत्येक स्वभावः, तयोर्द्वयोरपि प्रकाशत इति प्रतीतिं प्रति वैषम्याभावात् । ततश्च चिदग्निसात्कृतयोरनयोः को नाम वैलक्षण्यावभास इत्यर्थः । यथा माणिक्यमरतकोररुणश्यामलयोरन्योन्यविरुद्धयोरपि किञ्चित्सन्निकर्षेणा- वस्थापितयोः परस्परप्रभापटलकर्बुरीभावादेकरसो भवन् प्रकाशमानता- सम्मेदो भेदप्रतिभासं प्रतिमाष्टिं। उभयोरपि स्वस्वरूपपरित्यागपूर्वमेक- १. 'क्तुं न श' ग. पाठः, २. 'अ' ख. पाठः ३. 'प्रमा' ग. पाठ: -
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति