पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । अथ श्रीचक्रं क्रमणोन्मुद्रयिष्यन्नादौ पीठनिकेतनादि नेत्रत्रितयान्तं विभागद्वारा पर्यालोचयति - PRUNIG ८७ पीठम्मि कळाओ णव पञ्चच्चिअ पञ्च वाहपअवीए । सत्सदह फाळणेत्ते बारह छोळह अ अण्णणेत्तेसुं ॥ ३७ ॥ पीठे कला नव पश्चैव पञ्चवाहपदव्याम् । सप्तदश फालनेत्रे द्वादश षोडश चान्यनेत्रयोः || इति । पीठं हि नाम स्वशरीरभट्टारकात्मकमित्युक्तम् । तत्रैव पर- मेश्वरस्य पञ्चधा वहनात् । यदेतत्पर्यालोचनायामन्योन्यानन्दसंघट्टनो- न्मुखमातापितृस्वभावाभिन्नशक्तिशिवद्वितयसामरस्योन्मिषत् स्त्रीपुंसवीर्यस्फु रत्तारब्धत्वनैत्ययादुपर्युद्भविष्यदनेकदेवताचक्रोर्मिपरम्परास्फारौचित्यमत्रैवे- त्यध्यवसीयते । तदुक्तं श्रीमहानयप्रकाशे - “शिवशक्त्युभयोन्मेषसामरस्योद्भवं महत् । वीर्य तस्माद् देह एव महापीठः समुद्रतः ॥" इति । एवं पीठपरामर्शस्य प्राधान्यं प्रतिपादयितुं यादौ दूतीयजनमारम्भ- णीयतयोद्भाव्यते । यथा श्रीक्रमोदये- "स्त्रियः सर्वेषु वर्णेषु योगिन्यः स्युर्न संशयः । देहवद् योनिशुद्धिस्तु आत्मवल्लिङ्गशोधनम् || योनौ नवाक्षरी न्यस्य लिङ्गे सप्तदशाक्षरीम् । गुरुचक्रस्य पूजार्थं कुर्याद् योगिनिमेलनम् ॥ नवाक्षर्या तु मन्त्रेण स्थापयेलिङ्गपीठवत् । शिवशक्त्यात्मभावेन पुरुषो मन्थकः स्मृतः || मन्थयेदात्मनः शक्तिं मधुवच्छुकशोणितम् ।" - इति । यथा चोपनिषदि – “यथैवं विद्वान् मिथुनमुपैत्यग्निहोत्रमेव तस्य हुतं भवति" इति । तत्र च कलाः शक्तयो नव । परमेश्वरस्य स्त्रीपुं- सादिमेदव्युदासेन सर्वस्यापि शक्तिमयत्वात् कला इत्युक्तम् | ताश्च १. 'सो' ख. पाठः २. 'च' ग. पाठः.