परिमलोपेता । चैतन्यं प्राधान्यमभिमानः कर्तृत्वमध्यवसायो वचनमादानं गमनमुत्सर्जन- मानन्दितृत्वं ज्ञानं सङ्कल्पनं श्रवणं स्पर्शनं दर्शनमास्वादनमात्राणनं चेति प्रमातृम्फुरणप्रकारा एव भवन्ति, येषामन्तःकरणबहिष्करणादीन्युपाय. तयावतिष्ठन्ते । एताश्च मूर्तिशक्तयः संकुचितस्य प्रमातुस्तद्विषयास्वादन- भेदोपश्लेषात् पशुत्वमुपजनयन्ति, असंकुचितस्यात्यन्तस्वातन्त्र्यशक्ति- विजृम्भासंरम्भारम्भकतया प्रवर्तमानाः परमशिवीभावलक्षणं मङ्गल्यमुन्मी- लयन्तीति । अथ च प्रकाशानन्दचऋद्वितयमाह -द्वादश षोडश चान्य- नेत्रयोरिति । अन्ययोदक्षिणवामरूपयोनेंत्र पोथासङ्ख्यं द्वादश षोडश च शक्तय इत्यर्थः । तत्र दक्षिणं नेत्रं प्रकाशचक्रम् | प्रकाश्यतेऽनेन प्र- मेयजातमिति व्युत्पत्त्या प्रकाशः प्रमाणमित्यर्थो भवति । तत्र च शक्तयो द्वादश | हंसमत्यादीनां गुरुतया प्रमातृरूपाणामपि महाप्रमात्रपेक्षया प्रमा- णीभावयुक्त्या शक्तित्वमेव । ताश्च तत्त्वदृष्ट्या यथाक्रमं बुद्धिप्रधानानि वाक्पाणिपादपायूपस्थरूपाणि कर्मेन्द्रियाणि, मन श्रेष्ठानि श्रोत्रत्वक्चक्षू- रसनाघ्राणात्मकानि ज्ञानेन्द्रियाणि च भवन्ति । अहङ्कारस्य सर्वत्रानु- स्यूतत्वान्न पृथग् गणनम् । एवञ्च 'प्रमाणरूपो भगवान् मातीण्डो द्वादशधा प्रकाशते' इत्युपनिषत् । वामं च नेत्रमानन्दचक्रम् | आनन्दो नाम स्वात्मपरमेश्वरस्येदन्तया स्फुरत आ समन्तात् समृद्धिस्वभावः प्रमेयवर्गोल्लासः । स च सौम्योऽशः । तत्र कलाः षोडश | वस्तुवृत्त्या तु ताः षोडशविकारस्वभावाः | विकारश्चे मनः कर्मेन्द्रिय पञ्चकं ज्ञानेन्द्रि- यपञ्चकमाकाशादिभूतपञ्चकं च । एतेषु शब्दस्पर्शादिः सर्वोऽपि वेद्य- विलासोऽन्तर्भवति । शब्दादीनां स्थौल्यावस्थैव महाभूतानि । मनसा च बुद्ध्यहङ्कारद्वयक्रोडीकारः । यदाहुः पौराणिकाः VOCA h "मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासाङ्ग मुक्त्यै निर्विषयं मनः ||" इति । एवमन्यदप्यूहनीयम् । एतानि च मूर्तिप्रकाशानन्दचक्राणि वामे- श्वर्यादिशक्तिपञ्चकात्मकान्येव । तत्र प्रमातृवह्निरूपमूर्तिचक्रं सर्वोर्ध्व- वर्तिनीं सर्वाविभागस्वभावत्वात् सर्वसाधारण्येन स्फुरन्तीं व्योमवामेश्वरीं ३. 'श्व ततः क' ग. पाठ: २. 'वे' क. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति