महार्थमञ्जरी प्राधान्यतो निमित्तीकृत्य खेचरीशक्त्या प्रवर्तते । खेचरी च प्रमातृस्फुर- णतन्मयीति आगप्युक्तम् प्रमाणार्करूपं तु प्रकाशचक्रं दिक्चरी- गोचर्युभयमेलनारब्धं तयोईयोरप्यन्त बहिरिन्द्रियोल्लासरूपत्वात् । प्रमे यसोममयमानन्दचक्रं तु भूचर्यनुप्राणनमिति विवेकः । अनेनैव चक्र- त्रयेण इच्छा ज्ञानं क्रियेति शक्तयः, ज्वलनस्तपनः शशीति विन्दवः, भू- र्भुवः सुवरिति व्याहृतयः, प्राणोऽपान उदान इति वायवः, पृथि- व्यन्तरिक्षं स्वर्ग इति स्थानानि, सत्वं रजस्तम इति गुणाः, इडा पिङ्गला सुषुम्नेति नाव्यः, देवयानं पितृयानं महायानमिति यानानि, स्थूलं सूक्ष्मं परमित्यवस्थाः, कुळं कौळमकुळेमिति विभागाः, मन्त्रो मुद्रा निरीहा इति रहस्यानीत्यायखिलमपि त्रित्वविशिष्टं क्रोडीक्रियते । यैच्छ्रुतिः 'तमेकनेमिं त्रिवृतं षोडशरिम्' इत्यादि ॥ ३७ ।। mangs एवं स्थूलं देहं पीठतयोपास्यमुपपाद्य सूक्ष्ममप्येवं वित्रष्टव्यमित्यु- न्मीलयितुं वृन्दचक्रं पर्यालोचयति पअडिअपञ्चक्खन्धे चोसठ्ठी होति विन्दचक्कम्मि ॥ ३७३ ।। प्रकटितपञ्चस्कन्धे चतुष्षष्टिर्भवन्ति वृन्दचत्रे | इति । वृन्दानां चक्रं वृन्दचक्रम् | वृन्दश्च सन्दोहात्मा । तादृक्- त्वं च तस्य स्वतः पुर्यष्टकमयतया ज्ञानसिद्धादिपञ्चकसमष्टिस्वभावत्वात् । तच्च प्रकटितपञ्चस्कन्धम् | ज्ञानसिद्धाः षोडश, मन्त्रसिद्धाश्चतुर्विंशतिः, मेळापसिद्धा द्वादश, शाक्तसिद्धा अष्टौ, शाम्भवसिद्धाश्चतस्त्र इति भया पञ्चवाहक्रमानुगुण्यादुद्भावितपञ्चप्रकारम् । आहत्य चतुष्पष्टिर्वृन्दचक्रम् । तत्र श्रीकालसङ्कर्षण्यपरपर्याया रुद्ररौद्रेश्वरी पञ्चवष्टितमी सर्वानुवृत्तेति न पृथग् गण्यते । तच्च “धाममुद्रावर्णकलासंविद्भावस्वभावतः । पातोऽनिकेतदृष्ट्या च वृन्दचक्रं प्रकाशितम् ॥" १. 'णात्मरू' ख. पाठः, २, 'कं चेति' क. ग. पाठः, ३० 'त' ख. पाठ: ४. 'त' क. पाठ: ५. 'त्वाच । त' क. ख. पाठः, ६. 'ता' ख. ग. पाड:,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति