पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । इति न्यायादष्टधा भवति । तत्र धामानि स्थानानि ज्ञानसिद्धादीनां क्रमात् कन्दनाभिहृत्कण्ठभूमध्यरूपाणि । मुद्राः करङ्किण्यादयः । यदुक्तं "करक्षिणी क्रोधनी च भैरवी लेलिहानिका | खेचरी चेति मुद्रायाः पञ्चात्मकतया स्थितिः || " इति । तथा श्रीविज्ञानभट्टारके - "करङ्किण्या कोवनया भैरव्या लेलिहानया । खेचर्या दृष्टिकाले च परा व्यातिः प्रकाशते ।।" इति । मुद्राणां बन्धप्रकारश्च तत्रैवोपपादितः । यथा "मृद्वासने स्फिजैकेन हस्तपादं निराश्रयम् । विधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवेत् || उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ । कक्षव्योनि मनः कुर्वन् राममायाति चिल्लयात् || स्थूलरूपस्य भावस्य स्तंब्वां दृष्टिं निपात्य च । अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् || मध्यजिहे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् । होच्चारं मनसा कुर्वन् ततः शान्ते प्रलीयते ॥ आसने शयने स्थित्वा निराधारं विचिन्तयेत् । स्वं देहं मनसि क्षीणे क्षणात् क्षीणाशयो भवेत् ॥” इति । तत्त्ववृत्त्या तु करङ्किणी नाम स्वदेहेन्द्रियाख्यभेदविगलनप्रगल्भा मुद्रा । यथा श्रीचिद्गगनचन्द्रिकायाम् - “अन्तरम्ब! बहिरप्यमी करा ये तवाक्षतनवोऽङ्क एष यः । विग्रहो द्वितयमप्यतःपरं चिन्नभो नयसि नः करङ्किणी ॥” इति । पृथिव्यादिप्रकृत्यन्तं तत्त्वसन्दोहमन्तः संजिद्दीपलक्षणेन क्रोधेन स्वात्मरूपतां नयति कोधनी । यथा - ♡ “यत् प्रकृत्यवधि तत्त्वमण्डलं क्ष्मामुखं परिमित ग्रहास्पदम् । क्रोधनी त्वमसि संजिहीर्पया मन्त्रमूर्तिरिह तस्य जृम्भिकौ ॥" १. 'स्पर्धाह' क. पाठः २. 'विभावये' ग. पाठः. ३. 'ता' ख, पाठ,