महार्थमञ्जरी इति । अनेन श्रीमहार्थत्रेकदर्शनयोरन्योन्यं नालन्तं भेदप्रथेति व्याख्यातम् । एवमोङ्कारेऽप्यनुसन्धेयम् । यदयमोड्याणपीठस्वभावो नादात्मा परम- व्योमरूपः सृष्टयादिप्रथात्रयोपसंहारप्रगल्मो जामदाद्यवस्थात्रयाधिष्ठातृ- भूतब्रह्मविष्णुरुद्रात्माकारोकारमकारात्मा सर्वाविभागप्रथामयनादलक्षणा- र्धमात्रानुप्राणनः प्रतिपादिततद्वर्णचतुष्टयसामरस्योन्मीलितो महारावबीज- पर्यायो भवति । तथा श्रीमहानयप्रकाशे - “विसर्गस्थितिसंहारप्रथाग्रासैकतत्परः । निरुपाख्यमहादीप्तिसमुल्लसनतत्परः ॥ योऽध्युष्टकलनोद्रेकस्वभावः प्रणवाभिवः । पीठाभिधं तमेवाहं नमाम्यागमसिद्धये ॥" इति वर्णक्रमः । कला रौद्यादयः । तत्र रौद्री वाना अम्बिका ज्येष्ठेति क्रमात् ज्ञा- नसिद्धादिभिरुपश्लिष्यन्ते । एतत्सामरस्वलक्षणाश्च शाम्भव्यः । यदुक्तं श्रीचिद्भगनचन्द्रिकायां www “ज्ञानदीधितिषु रौद्र्यदेति ते मन्त्रदीधितिषु वामयोदितम् । योगदीधितिषु जृम्भतेऽम्बिका ज्येष्ठयेत्थमधिशक्तिदीधिति ॥ देव्यभेदितकलाचतुष्टयी शम्भुदीधितिषु दीप्यते स्वरः ॥” इति । अथ संवित्स्वभावः । तत्र ज्ञान नाम सामान्यात्मिका प्राथमिकी प्रथा, यामालोचनेत्याचक्षते । मन्त्रः पैदार्थोदयसंरम्भात्मा परामर्शः । स एव स्वात्मविश्रान्तो मेळापः । तादृररूपस्यै च वासनाशान्तिरूपः शाक्तः | विलीनसर्ववासनोपलेपस्य चास्य स्वात्मसंविन्मात्रतापारिशेष्यं शाम्भव इति । अथ भावस्वभावः । पारमेश्वरो हि प्रकाशः प्रकृत्या प्रसन्नगम्भीर- मनुत्तरङ्गमम्बुराशिमनुहरन्नविकल्पोत्मैवान्तरस्वातन्त्र्यमयीमानन्दशक्तिमनु- भवति । तस्य च तादृक्त्वभावानुप्रविष्टाः शक्तयः शाम्भव्यः । स एव यदा किञ्चित् कल्लोलनक्रियौन्मुख्यमनलम्चते, तदा शाक्तोल्लासः । तस्यैव 1. 'न्तमभे' क. पाठ: २. 'ज्ञानसं।' ख पाठ:• ३. 'परमार्थो' क. ग. पाठ:- ४, 'स्य वा' ग. पाठः ५. 'त्यामेवान्त' क. ग. पाठः
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति