पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी सिद्धात्मकप्रमाणद्वारा स्वात्मनि विश्रमयन्तीति । ततश्च प्रमाणभूतानामि- न्द्रियाणामेव तत्र प्रवृत्त्यौलवण्याद् द्वादशेन्द्रियमय मेळापसिद्धाचक्रमित्यर्थो भवति । अथ शाक्तसिद्धाः । शक्तिश्च वासनामयी । सा च पुर्यष्टकविषय- त्वादष्टधा भवति । पुर्यव्याष्टौ बुद्धिरहङ्कारो मनः शब्दादिपञ्चकं चेति प्रसिद्ध मिति तदनुप्राणनोऽयमेतञ्चऋविष्फारः । शाम्भव्यश्च नाम प्रलीनाशे- षविश्ववासनस्य भगवतः शम्भुभट्टारकस्य तत्त्वरूपाविभिन्नाः शक्तयः । ताश्च तत्त्वदृष्टावम्बाज्येष्ठावामारौद्रीमय्य इति । ९८ इत्येनां गुरुमुखसम्प्रदायलब्धां वाचालः शुक इव वृन्दचक्रचर्याम् । पञ्चार्थक्रमपदवीरहस्यसंवित्सर्वस्वव्यतिकरगर्भिणीमवोचम् || , इत्थं स्वदेहमेव पीठनिकेतनतया स्थूलं वृन्दचात्मना सूक्ष्मं पञ्च- वाहस्वभावतया परं च पीठतया पर्यालोच्य तस्यै च त्रैविध्यस्य पर- मार्थं प्रमातृप्रमाणप्रमेयलक्षणैर्मूर्तिप्रकाशानन्दचकैः परामृश्य तदुपरि वरि- वसनीयां श्रीगुरुनाथपरम्परां तद्व्यतिरेकद्वारा प्रकाशयति Totty ण हुँ मण्डले गुरूणं णिअमो णिअमाइळङ्घिर्ण जुत्तो ॥ न खलु मण्डले गुरूणां नियमो नियमातिलङ्गिनां युक्तः ॥ इति । अयमेव पीठस्य तत्प्रतिष्ठाप्याया देवतायाश्च भेदः - यदन्योन्यमाधाराधेयभावेऽपि प्रथमस्य स्वतः स्फुरत्ताराहित्यमन्यस्याश्च स्वतः स्फुरत्स्वभावतया नित्यनौज्ज्वल्योत्कर्ष इति । तत्र पीठदेवतानां यः स्फुरत्तां प्रत्यौपाधिकत्वलक्षणो नियमः, स तु भगवतां श्रीमङ्गळादेवी- मारभ्य श्रीमद्देश्वरानन्दपर्यन्तं पृथक् प्रथमानानां गुरुनाथानां मण्डलं पङ्किः तत्र न संभवति, यत एते प्रस्तुतं नियममतिलङ्ग्य वर्तन्ते । तत- च पूर्णसंवित्स्वभावा श्रीगुरुपङ्किरिति तात्पर्यार्थः । यत एते देशकालाद्यव- च्छेदरूपं नियममतिलङ्घयन्ति, तत एषां बहुत्वम् । एतत् तत्त्ववृत्त्या २. येष्टकच अष्टो', ३. 'त्र' क. पाठः, ४. 'हि' ख. पाठः,